2023-02-20 00:56:56 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
प्रतियोगित्याधिकरणयत्किंचिद्यत्त्यनुयोगिकत्वाभावः तदन्यत्वम् (ग०
ध्याप्तिनि० कूट० ) । अत्र यत्पदं साध्यतावच्छेदकपरम् । इदं
व्यापकत्वं तु प्रतियोगिताव्यापकत्वम् इति व्यवयिते । अत्र च बहि-
घूमोभयवान्धूमादित्यादौ यदा पर्याप्तिसंबन्धेनोभयत्वस्य साध्यतावच्छेद-
कता विवक्षिता तदाप्यनेन परिष्कारेण व्यापकत्वं निर्वहति इति
विज्ञेयम् । [ छ ] अधिकदेशवृत्तित्वम् । यथा द्रव्यत्वस्य पृथिवीत्वाद्य-
पेक्षया व्यापकत्वम् ( परत्वम् ) ( मु० १ पृ ३७ ) । २ स्वरूपतः
सर्वदेशसंबद्धत्वम् । यथा सामान्यस्य व्यापकत्वम् (वै० उ० १/२/३
पृ० ५३ ) । ३ क्वचित् परममहत्परिमाणयोगः । यथा आकाशादे-
व्र्व्यापकत्वम् (वै० उ० ७।१।२२ ) । ४ आधेयत्वम् (वृत्तित्वम् ) ।
यथा शरीव्यापकं स्पर्शग्राहकं त्वगिन्द्रियम् इत्यादौ । ५ तान्त्रिकास्तु
सर्वाङ्गसंबन्धित्वम् । यथा अङ्गुलिव्यापकन्यासौ ( तसा० ) इत्यादौ
न्यासविशेषे व्यापकत्वम् इत्याहु: ( वाच ० ) । ६ आच्छादकत्वम् इति
काव्यज्ञा आहुः ।
८३०
व्यापार :-
-१ यं जनयित्वैव यस्य यज्जनकत्वम् स तद्व्यापार (त० प्र०
२ ) । यथा लौकिकप्रत्यक्षे इन्द्रियस्येन्द्रियार्थसंनिकर्षषटुं व्यापारः ।
तथा हि संनिकर्ष जनयित्वैवेन्द्रियस्य प्रत्यक्षजनकत्वम् इति प्रत्यक्षे संनि-
कर्ष इन्द्रियस्य व्यापारः । व्यापारत्वं च द्रव्यान्यत्वे सति भावत्वे सति
तज्जन्यत्वे च सति तज्जन्यजनकत्वम् ( न्या० म० १ पृ० २) ( त०
दी० ) ( सि० च० ) ( त० कौ० ) । करणजन्यत्वे सति करणज-
न्यफलजनकत्वम् इत्यर्थः ( म० प्र० ११० ५ ) । शिवादित्य मिश्रास्तु
व्यापारत्व मखण्डोपाधि इत्याहु: ( न्या० म० १ पृ० २ ) । संनिकर्ष-
षटुं च इन्द्रियेण जन्यते इन्द्रियजन्यं प्रत्यक्षं जनयति च इति व्यापारल-
क्षणाकान्तं भवति इति विज्ञेयम् । अनुमित्यादौ तु व्याप्तिज्ञानस्य परा-
मर्शादिर्व्यापारः । यथा वा कुठारेण दारु छिनत्ति इत्यादौ छिदाकरण-
परशोर्दा रुसंयोगो व्यापारः ( प्र० प्र० ) । तथा हि परश्वात्मकेन छिदा-
करणेन जन्यः तेनैव जन्यायाः फलीभूतायाश्छिदात्मकक्रियाया जन-
-