This page has not been fully proofread.

न्यायकोशः ।
 
८२७
 
हेतुपरामर्शप्रमाणनिर्णयप्रयोजनात्मको व्यवहारः तस्य पदं विषयः इति
तदर्थः । स च द्विविधः शङ्काभियोगः तस्वाभियोगश्चेति ( मिता०
अ० २ श्लो० ५ पृ० ३ ) । व्यवहारपदानि चाष्टादश मनुनोक्तानि
तेषामाद्यमृणादानं ( १ ) निक्षेपो ( २ ) स्वामिविक्रयः ( ३ ) । संभूय
च समुत्थानं ( ४ ) दत्तस्यानपकर्म ( ५ ) च ॥ वेतनस्यैव चादानं
( ६ ) संविदश्च व्यतिक्रमः ( ७ ) । क्रयविक्रयानुशयो ( ८ ) विवादः
स्वामिपालयोः ( ९ ) ॥ सीमाविवादधर्मश्च ( १० ) पारुष्ये दण्डवाचिके
( ११ ) । स्तेयं ( १२ ) च साहसं ( १३ ) चैत्र स्त्रीसंग्रहण ( १४ )
मेव च ॥ स्त्रीपुंधर्मो ( १५ ) विभागश्च ( १६ ) द्यूत ( १७) माह्वय
( १८ ) एव च । पदान्यष्टादशैतानि व्यवहारस्थिताविह ॥ ( मनु०
अ० ८ श्लो० ४ – ७ ) इति ।
 
व्यसनी - व्यसनमिष्टवियोगोनिष्टप्राप्तिः । तज्जनितं दुःखमपि व्यसनम् ।
तद्वान्व्यसनी ( मिताक्षरा० अ० २ श्लो० ३२) ।
 
शास्त्रम्
 
-
 
व्याकरणम् – १ [ क] पूर्वपूर्वव्याकरणत: शब्दगुणदोषविद्भिरभियुक्तैः
प्रकृतिप्रत्ययादिपरिकल्पनया कृतं शब्द साधुत्वाख्यायकम्
( चि० ४ ) । यथा अनेक (पाणि ० ४ । २ । ३३ ) इत्यादि । अनेन
शास्त्रेण अग्निर्देवतास्य हविषः इत्यर्थे अग्निशब्दाड्ढक्प्रत्ययकल्पनया
आग्नेयम् इति शब्दस्य साधुत्वमाख्यायते । अत्रार्थे व्युत्पत्तिः व्याकि
यन्ते व्युत्पाद्यन्ते अर्थवत्तया प्रतिपाद्यन्ते शब्दा येन इति व्याकरणम् ।
करणे ल्युट् प्रत्ययः । [ख ] शाब्दिकास्तु निःश्रेयसमुख्यफलकं शब्दा-
नुशासनम् । यथा पाणिनिशाकटायनादिप्रणीतं व्याकरणम् इत्याहुः ।
[ग] आसनं ब्रह्मणस्तस्य तपसामुत्तमं तपः । प्रथमं छन्दसामङ्ग-
माहुर्व्याकरणं बुधाः ॥ ( सर्व० सं० पृ० २९५ पाणि० ) । व्याक-
रणस्य मुख्यफलं च एकः शब्दः सुष्टु प्रयुक्तः सम्यग्ज्ञातः स्वर्गे लोके
कामधुग्भवति इति । अत्रावान्तरफलं तु रक्षोहागमलध्वसंदेहाः प्रयो-
जनम् इति महाभाष्योक्तं ज्ञेयम् । अत्रोक्तम् अथ व्याकरणं वक्ष्ये काव्या-
यन समासतः । सिद्धशग्दविवेकाय बालव्युत्पत्तिहेतवे ॥ इत्यादि ।