2023-02-20 00:56:56 by ambuda-bot
This page has not been fully proofread.
न्फरक्रोशः ।
CRY
ब्यर्थविशेषणस्वम् ~~ विशेषणं विनापि यत्र व्यातिप्रहः सत्र व्यर्थविशेषण-
त्वम् । यथा वहिमान् नीलघूमात् कालो नित्यः शरीराजभ्यत्वादियादौ
व्यर्थविशेषणत्वम् ( चि० १ निर्वि० पृ० ८२१) । इदं च व्याश्यत्वा-
सिद्धिरूपे हेत्वसिद्धौ वा हेत्वाभासेन्तर्भवति इति विज्ञेयम् ।
व्यवधानम् - १ यत्किंचिद्वस्तूत्तरत्व विशिष्टं वस्त्वन्तरपूर्वत्वम् । तच्च द्विविधम्
दैशिकम् कालिकं चेति । अन्ये तु २ द्रव्यान्तरेण द्रव्यान्तरस्याच्छादनम्
इत्याहु: ( हेमच० )।
व्यवसाय: - १ ज्ञानविषयीभूतं ज्ञानम् । पूर्वज्ञानम् इति यावत् । यथा
व्यवसायात्मकं प्रत्यक्षम् ( गौ० ११ १/४ ) इत्यादौ । अत्र घटचाक्षुष-
प्रत्यक्षानन्तरं जायमानेन घंटं साक्षात्करोमि इत्यनुव्यवसायेन गम्यो
घटसाक्षात्कारः सविकल्पकज्ञानरूपः व्यवसाय: । अत्र भाष्यम् । सर्वत्र
प्रत्यक्षविषये ज्ञातुरिन्द्रियेण व्यवसाय: । पश्चात् मनसा अनुष्यवसाय: ।
उपहतेन्द्रियाणामनुव्यवसायाभावात् ( वात्स्या० १।१।४ ) इति । एव-
मनुमानादिविषयेपि स्वयमूह्यम् । २ काव्यज्ञास्तु उद्यमः ( रघु० ८/६५ ) ।
यथा किं दूरं व्यवसायिनाम् इत्यादौ इत्याहुः ।
व्यवस्था - मर्यादा । सा च कचित् शास्त्र विहितस्य विषयान्तरपरिहारेण
विषय विशेषे स्थापनम् । वैयाकरणास्तु स्वाभिधेयापेक्षावधिनियम इत्याहुः
( सि० कौ० ) । तदर्थश्च दिग्देशकालैरवधिनियमरूपा व्यवस्था इति ।
व्यवस्थायां च सर्वनामता भवति ।
०
व्यवस्थितत्वम् - [क] अयोगान्ययोगाभ्यां परिच्छेदः । यथा व्यव-
स्थितः पृथिव्यां गन्धः (वै० २१२१२ ) इत्यादौ पृथिव्यां गन्धस्य व्यव
स्थितत्वम् । भवति हि पृथिवी गन्धवत्येव पृथिव्येव गन्धवती इति ( वै०
उ० २१ २२ ) । यथा वा व्यवस्थित विकल्पः इत्यादौ । [ख] बाघ-
काभावादवधारणम् ( वै० वि० २।२।२ ) ।
व्यवहारः-१ [क] शब्दप्रयोगः ( न्या० बो० ११० ६ ) । यथा
व्यषहरन्ति जना इत्यादौ । [ख] बुबोधयिषापूर्वकामप्रयोगः ।
१०४ न्या० को●