2023-02-20 00:56:55 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
शङ्काविरहः कचित् तर्कात् कचित् स्वतःसिद्ध एव इति ( सि० च० २
पृ० २४) (त० दी० २ पृ० २१)। तत्र तर्कादित्यस्य तर्काभावेतर निखि
लकारणसमवधानस्थले इत्यर्थः । स्वतः सिद्ध एवेत्यस्य इतरकारणविरह स्थले
तादृशकारणविरहप्रयुक्त एवेत्यर्थ: ( नी० २ पृ० २१ ) । २ कार्य-
कारणभावभङ्गः । अयं व्यभिचारो द्विविधः अन्वयव्यभिचारः व्यतिरे-
कव्यमिचारश्च । तत्रायः कारणसखे कार्याभावात् । द्वितीयः कार्यसत्त्वे
कारणाभावात् ( ग० ) । ३ धर्मज्ञास्तु निन्दिताचारः । यथा पत्नी पत्यु-
र्धनहारिणी या स्यादव्यभिचारिणी इत्यादौ जारकर्म व्यभिचारः इत्याहुः
( मिताक्ष० कात्याय० पृ० ७५ ) । अत्र विशेष उच्यते हृताधिकारां
मलिनां पिण्डमात्रोपजीविनीम् । परिभूतामधः शर्य्या वासयेद्व्यभिचारि-
णीम् ॥ ( याज्ञ० अ० १ श्लो० ७० ) इति ।
-
व्यभिचारी – १ व्यभिचारवान् । २ आलंकारिकास्तु रसप्रादुर्भावाङ्ग-
भूतनिर्वेदादिः संचारिभावः इत्याहुः । तदुक्तम् विशेषादाभिमुख्येन
चरन्तो व्यभिचारिणः । स्थायिन्युन्मन्ननिर्ममास्त्रयस्त्रिंशच तद्भिदाः ॥
( सा० ८० परि० ३ श्लो० १४० ) इति । तदर्थश्व स्थिरतया वर्त-
माने हि रत्यादौ निर्वेदादयः प्रादुर्भावतिरोभावाम्यामाभिमुख्येन चरणा-
यभिचारिणः कथ्यन्ते इति । ते के इत्याह निर्वेदावेगदैन्यश्रममदजडता
औम्यमोहौ विबोधः स्वप्नापस्मारगर्वा मरणमलसतामर्षनिद्रावहित्थाः ।
औत्सुक्योन्मादशङ्काः स्मृतिमतिसहिता व्याधिसंत्रासलज्जा हर्षासूयावि-
षादा: सधृतिचपलता ग्लानिचिन्तावितर्काः ॥ ( सा० १० १० ३
लो० १४१) इति । एवम् रत्यादयोप्युपलक्षणतया प्रायाः ( सा०
८० प० ३ श्लो० १७२) ।
-
व्यर्थत्वम् – १ स्वसमानाधिकरणावश्यक्लृप्तधर्मान्तर घटितत्वम् । यथा प्रमे-
यत्वविशिष्टसास्त्रादिम स्वस्य गोर्लक्षणत्वे वाथ्ये व्यर्थत्वम् । अत्र केवल-
सानादिमश्वेनैव गोर्लक्षणम्वनिर्वाहे अप्रयोजनकप्रमेयत्वपदार्थघटितस्य
प्रमेयत्वविशिष्टसास्नादिमत्त्वस्य वैयर्थ्यम् इति विज्ञेयम् । २ निष्फलत्वम्
इति काव्यज्ञा आहुः ।