This page has not been fully proofread.

न्यायकोश ।
 
इत्यादौ व्यपदेशः । २ शाब्दिकास्तु मुख्यव्यवहारः । यथा व्यप-
देशि देकस्मिन् ( व्या० परि० ) इत्यादौ इति वदन्ति । अत्र व्यपदे-
शिना तुल्यं वर्तते (वतिः ) इति विग्रहः । समुदितार्थस्तु एकस्मिन्
असहायेपि व्यपदेशिषत् मुख्यत् कार्ये कर्तव्यम् इति । यथा अश्या-
पत्यम् इः इत्यत्र अत इञ् ( पाणि० ४११/९५) इति सूत्रेण विधी-
यमानोदन्तप्रकृतिकोपि इञ् केबलात् अशब्दादपि भवति । ३ संज्ञा
(त्रिका० ) । ४. कापव्यम् (हेमच० ) ( वाच० ) । ५ व्यपदेशो
विरुद्धानुष्ठानम् ( जै० सू० कृ० अ० २ पा० ४ सू० २४)।
व्यपवर्गः – समाप्तिः ( जै० सू० वृ० अ० २ पा० ४ सू० ४ ) ।
 
-
 
व्यपेक्षा -१ अपेक्षा । २ वैयाकरणास्तु सामर्थ्यविशेषः । स च स्वार्थप
र्यबसायिपदानामाकादशः परस्परं संबन्धः सा व्यपेक्षा इत्याहुः ।
अन्ये तु अवयवार्थापेक्षणम् इत्याहुः । अत्रेदं विज्ञेयम् । व्यपेक्षायां
समासो न भवति । किंतु एकार्थीभाव एव समासो भवति इति । सत्प्रप-
वस्तु समासशब्दव्याख्याने दृश्यः ।
 
-
 
व्यभिचरितत्वम् ~ व्यभिचारः ।
-
 
व्यभिचारः – १ ( अनैकान्तिकत्वरूपो हेतुदोषः ) एकत्राव्यवस्था । यथा
नित्यः शब्दः अस्पर्शत्वात् ( वात्स्या० १ । २१५ ) इति । यथा वा घूमवा-
वहेरित्यादौ बघूमव्यभिचारः । शिष्टं च सव्यभिचारत्वशब्दव्या-
ख्याने दृश्यम् । व्यभिचारलक्षणं च साध्यसाधनग्रहाविरोधिनो ज्ञानस्य
विषयतषा व्याप्तिंग्रहप्रतिबन्धकतानतिरिक्तवृत्तित्वम् ( दीवि० २५०
२०३ ) ( ग० २ हेत्वाभा० सामा० ) । अत्रेदं बोध्यम् । व्यभिचार-
त्वस्य साधारणत्वासाधारणत्वानुपसंहारित्वात्मकेषु त्रिषु हेतुदोषेषु वर्तमा
नत्वेपि साधारणत्व एवार्थे व्यभिचारशब्दं प्रायशः प्रयुक्त इदानींतना
नैयायिकाः इति । अत्रेदं प्रसङ्ग तोधिकं बोम्यम् । व्यभिचारज्ञानविरह सह-
कृतसह चारज्ञानं व्याप्तिग्राहकम् । तत्र व्यभिचारज्ञानं द्विविधम् यथार्थम्
अयथार्थ च । अयथार्थमपि द्विविधम् निश्चयः शङ्का च । व्यभिचार-