This page has not been fully proofread.

न्यायकोशः ।
 
१।१।३५ ) । यथा पृथिवी इतरेभ्यो भिद्यते गन्धववादित्यादौ गन्ध-
वत्त्वात् इति शब्दो व्यतिरेकिहेतुः ।
व्यतिरेक्युदाहरणम् (अवयवः )
(गौ० ११ १/३७ ) । तदर्थश्च
 
[ क ] तद्विपर्ययाद्वा विपरीतम्
साध्यसाधनव्यतिरे कव्याप्तिप्रदर्शनात्
 
( गौ० वृ० १ । १ । ३७ ) इति । व्यतिरेक्युदाहरणत्वं च साध्यसाधना-
भावसंबन्धबोधकत्वम् ( चि० अव० २ १० ८० ) । अथ वा व्यति-
रेकव्याप्तिबोधकत्वम् ( दीधि ० २ पृ० १७७) । अत्र भाष्यम् ।
साध्यवैधर्म्यादतद्धर्मभावी दृष्टान्त उदाहरणमिति । अनित्यः शब्द उत्प-
त्तिधर्मकत्वात् अनुत्पत्तिधर्मकं नित्यमात्मादि । सोयमात्मादिर्दृष्टान्तः
साध्यवैधर्म्यादनुत्पत्तिधर्मकत्वादतद्धर्मभावी । योसौ साध्यस्य धर्मः अनि-
त्यत्वम् स तस्मिन्न भवतीति । अत्रात्मादौ दृष्टान्ते उत्पत्तिधर्मकत्वस्या-
भावाद नित्यत्वं न भवति इत्युपलभमानः शब्दे विपर्ययमनुमिनोति उत्प
त्तिधर्मकत्वस्य भावादनित्यः शब्दः इति ( वात्स्या० १।१।३७) ।
[ ख ] साध्यसाधनव्यतिरे कव्याप्त्युपदर्श कोदाहरणम् । यथा जीवच्छ-
रीरं सात्मकं प्राणादिमत्त्वात् यन्नैवं तन्नैवं यथा घटः इति ( गौ० वृ०
१।१।३७ ) । यन्नैवमित्यस्यार्थस्तु यन्न सात्मकं तन प्राणादिमत् इति ।
 
व्यतिरेक्युपनयः - (अवयवः ) उदाहरणापेक्षो न तथेति साध्यस्यो-
पसंहारः ( गौ० १९११३८ ) । साम्यवैधर्म्ययुक्ते उदाहरणे आ-
स्मादिद्रव्यमनुत्पत्तिधर्मकं नित्यं दृष्टम् न च तथा शब्दः इत्यनुत्पत्ति-
धर्मकत्वस्योपसंहारप्रतिषेधेनोत्पत्तिधर्मकत्वमुपसंद्दियते । उपसंद्दियतेनेनेति
चोपसंहारो वेदितव्यः (वात्स्या० ११३८ ) इति । साभ्यस्य
पक्षस्य उदाहरणापेक्ष उदाहरणानुसारी य उपसंहार उपन्यासः । प्रक-
तोदाहरणोपद र्शितव्यतिरेकव्याप्ति विशिष्ट हेतु विशिष्टपक्षबोधजनको न्याया-
वयवः इति तात्पर्यम् । व्यतिरेक्युपनयत्वं च साध्या भावव्यापकी भूताभा-
वप्रतियोगिमत्पक्षबोधकावयवत्वम् ( चि० अवय० २ पृ० ८१ ) । यथा
पर्वतो वह्निमान्घूमादित्यादौ वड्यभावव्यापकी भूताभावप्रतियोगिघूमवां-
श्वायम् इति न तथायम् इति वा वाक्यमुपनयः (गौ० वृ० १ । ११३८ ) ।