2023-02-20 00:56:55 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
-
रूपा यत्र यत्र सात्मकत्वाभावस्तत्र तत्र प्राणादिमस्वाभावः यथा घटादौ
इति व्यतिरेकव्याप्तिरेवास्ति ( त० कौ० २ पृ० १२ ) । [ ख ]
केचित्तु हेत्वभावसाभ्याभावयोर्व्याप्तिर्व्यतिरेकव्याप्तिः । सा च साध्या-
भावनिरूपिता हेत्वभावनिष्ठा व्यापकत्वरूपा । व्यापकत्ववस्वं च हेतोः
स्वाश्रय प्रतियोगित्वसंबन्धेन । तेन व्याप्तेर्हेतु
निष्ठत्वमुपपद्यते । अन्यत्र चैव-
मुक्तम् । ननु अन्यनिष्ठव्या त्या कथं साधनादनुमितिः इति चेदत्राहुः ।
साध्याभावव्यापकी
भूताभावप्रतियोगिस्त्रेन साधनस्य पक्षवृत्तित्वज्ञानं सह-
कारि ( सि० च० २ पृ० २६ ) इति । अत्रार्थे व्यतिरेकः अभावः ।
अर्थासाध्यस्य । तथा च साध्याभावनिरूपिता व्याप्तिर्व्यतिरेक व्याप्तिः
इति व्यतिरेकव्याप्तिशब्दः संगमनीयः ( वाक्य ० २ पृ० १५) ।
यथा पर्वतो वह्निमान्धूमादित्यादौ यो यो वह्नयभाववान् स धूमाभाव-
वान् इति ( वाक्य ० २ पृ० १५) । भत्रोक्तम् । व्याप्यव्यापक-
भावो हि भावयोर्यादृगिष्यते । तयोरभावयोस्तस्माद्विपरीतः प्रतीयते ॥
अन्वये साधनं व्याप्यं साध्यं व्यापकमिष्यते । साध्याभावोन्यथा व्याप्यो
व्यापकः साधनात्ययः ॥ ( सि० च० २ पृ० २६ ) ( प्र० प्र० ) ।
व्याप्यस्य वचनं पूर्व व्यापकस्य ततः परम् । एवं परीक्षितां व्याप्तिः
स्फुटीभवति तत्त्वतः ॥ ( त० कौ० २ ) इति ।
व्यतिरेकि – १ अत्यन्ताभावप्रतियोगि। यथा व्यतिरेकिसाध्यकस्थले व्यति-
रेकिहेतुकस्थले च इत्युक्ते पर्वतो वह्निमान्धूमादित्यादौ वह्नेर्धूमस्य च
व्यतिरेकित्वम् । २ पूर्वोक्तन व्यतिरेकेण विशिष्टम् । ३ व्यतिरेकव्या-
तिविशिष्ट हेतुकमनुमानम् । यथा पृथिवी इतरेभ्यो भिद्यते गन्धवत्त्वात्
इत्याद्यनुमानम् । अत्राधिकं तु केवलव्यतिरेकिशब्दे दृश्यम् ।
व्यतिरेकिहेतुः – ( अवयवः) [ क ] तथा वैधर्म्यात् (गौ० १ । १ । ३५ ) ।
उदाहरणवैधर्म्याञ्च साध्यसाधनं हेतुः । कथम् अनित्यः शब्द उत्पत्ति-
धर्मकत्वात् अनुत्पत्तिधर्मकं नित्यम् यथा आत्मादि द्रव्यम् (वात्स्या ०
१।१।३५ ) इति । [ ख ] ज्ञातव्यतिरेकव्याप्तिकहेतुबोधको हेत्ववयवः ।
[ग] अप्रतीतान्वयव्याप्तिकहेतुबोधको हेत्ववयवः ( गौ० वृ०