This page has not been fully proofread.

न्यायकोशः ।
 
कारणम् इति बदन्ति । मध्वाचार्यानुयायिनोप्याहुः । व्यतिरेकन्याप्तिः
प्रकृतसाध्यसिद्धावनुपयोगान्न स्वीकर्तव्या । जीबच्छरीरं सात्मकं प्राणादि-
मत्त्वादित्यादौ केवळव्यतिरेकित्वेन प्रसिद्धे हेताषप्यन्वयष्याप्तिरेष । यद्य-
प्यन्वयव्याप्तिर्दृष्टान्तानुपलम्भान्न युक्ता तथाप्यनुमानेन तां साधयितुं
व्यतिरेकव्याप्तिरुपन्थस्यते । तथा हि । प्राणादिमत्त्वं सात्मकत्वेन व्या-
तम् । तदभावव्यापकाभावप्रतियोगित्वात् । यद्यदभावव्यापकाभावप्रति-
योगि तत्तेन व्याप्तम् यथा धूमवत्त्वमग्निमत्त्वेन इति ( प्र० प०
पृ० १८ ) ( ग० सामा० ) ( कु० ३ ) । पर्वतो वह्निमान् घूमा-
दित्यादौ वह्नयभावव्यापकी भूताभावप्रतियोगित्वरूपा यत्र वहिर्नास्ति
तत्र धूमो नास्ति यथा महादः इति घूमे बहेर्व्यतिरेकव्याप्तिः ।
पृथिवी इतरेभ्यो जलादिभ्यः भिद्यते गन्धवत्स्त्रादित्यादौ केवलव्यतिरे-
किणि इतरत्वव्यापकी भूताभावप्रतियोगित्वरूपा यदितरभिन्नं न भवति
न तद्गन्धवत् यथा जलादि इति व्यतिरेक व्याप्तिः ( त० सं० ) ।
अत्र जलादित्रयोदशान्योन्याभावानां त्रयोदशसु प्रत्येकं प्रसिद्धानां कूटं
पृथिव्यां साध्यते । तत्र त्रयोदशत्वावच्छिन्नभेदस्यैकाधिकरणवृत्तित्वाभा-
वान्नान्वयित्वासाधारण्ये । प्रत्येकाधिकरणप्रसिद्ध्या साध्य विशिष्टानुमितिः
व्यतिरेकव्याप्तिनिरूपणं च इति सर्व सुस्थम् (त० दी० ख० २ पृ०२४ ) ।
अयं भावः । अनुमितेः पूर्व निश्चितसाध्यतावच्छेदकावच्छिन्नवन्तो
धर्मिण एवाप्रसिद्धाः न तत्र हेतोः सत्त्वासत्त्त्रनिबन्धने अन्वयित्वासाधा-
रण्ये । तथा प्रत्येकं प्रसिद्धौ अपेक्षाबुद्धिविशेषविषयत्वरूप समुदायत्व-
विशिष्टज्ञानं संभवति । तथा च विशेषणतावच्छेद कमकारक निर्णयस्य
सद्भावात् साध्यतावच्छेदक विशिष्ट वैशिष्ट्यावगायनुमितिः व्यतिरेक-
व्याप्तिज्ञानं च संभवति ( नील० पृ० २३ २४ ) इति । अत्र इत-
रमेदाभावात्मकस्य साध्याभावस्य अन्योन्याभावाभावस्य स्वप्रतियोगिभेद-
प्रतियोगितावच्छेदकस्वरूपत्वम् इति नियमादितरत्वस्वरूपत्वम् इति
बोध्यम् । जीवच्छरीरं सात्मकम् प्राणादिमत्त्वात् इत्यादावप्रसिद्ध-
साभ्यक केवलव्यतिरेकिणि हेतौ सात्मकत्वाभावव्यापका भावप्रतियोगित्व-