This page has not been fully proofread.

न्यायकोशः ।
 
सत्प्र० १० २१ ) । तच ज्ञानम् प्राचीनमते असाधारणधर्मवचाज्ञान-
विधया कोटिद्वयोपस्थापकतया फलीभूतसंशयं प्रति प्रयोजकम् इति
बिज्ञेयम् । यथा अनैकान्तिके अन्वयायतिरेकाद्वा कोव्युपस्थापकतया
संशयः फलम् ( चि० २ साप्र० ) इत्यादिग्रन्थे घूमवान्वः इत्यादौ
धूमधूमाभाववव्या वृत्तवहिमान् इति ज्ञानं व्यतिरेकः । ७ सजातीयाधि
क्यम् । यथा वैश्येभ्यः क्षत्रियाः शूराः शूद्रेभ्यो धनिनो विशः इत्यत्र
पञ्चम्यर्थो व्यतिरेकः । अत्र वैश्यशौर्यादधिकशौर्यवन्तः क्षत्रियाः शूद्रध-
नादधिकधनवन्तो वैश्याः इत्यर्यो बोध्यते ( श० प्र० श्लो० ९३ १०
१२८ ) । ८ विना इत्यस्यार्थः । ९ अर्थालंकारविशेषः इत्यालंकारिका
आहुः । १० विशेषेणातिक्रमः इति काव्यज्ञा आहुः ।
 
व्यतिरेकडष्टान्तः वैधर्म्यदृष्टान्तः ।
 
-
 
व्यतिरेक व्यभिचारः - ( कार्यकारणभावभङ्गलक्षणो व्यभिचारः ) कार्य-
सत्वे कारणाभावः (ग० ) । तदर्थश्च कार्याव्यवहित पूर्वक्षणावच्छेदेन
कार्यतावच्छेदकावच्छिन्नयत्किंचिद्यत्तयधिकरणयावयक्तिषु कारणामाव-
त्वम् ( दि० गु० ) । अथ वा कार्याव्यवहितपूर्वक्षणावच्छेदेन कार्य-
प्रदेशे कारणाभावः ( त० प्र० ख० ४ पृ० १२९ ) । यथा तर्कदी-
पिकायाम् समाप्ति प्रति मङ्गलस्य कारणत्व उक्ते किरणावल्यादाबाश-

 
तो व्यभिचारो व्यतिरेक
व्यमिचारो भवति । तथा हि किरणावल्या-
रूपनास्तिकग्रन्थविशेषे समाप्तिरूपकार्यसखेपि मङ्गलस्याभावः इति ।
 
व्यतिरेकव्याप्तिः - (व्याप्तिः ) [ क ] साध्याभावव्याप की भूताभावप्रति-
-
 
योगित्वम् (मु० २) ( नील० २ पृ० २३ ) ( न्या० बी० २ पृ०
१५ ) । व्यतिरेकः साध्याभावहेत्वभावयोः साहचर्यम् । तय्प्रयोज्या
व्याप्तिर्व्यतिरेकव्याप्तिः इति व्यतिरेक व्याप्तिशब्द: संगमनीयः ( सि०
व० २ १० २६ ) । यद्वा व्यतिरेकेण व्याप्तिः इति विग्रहः । व्यति-
रेकनिरूपिता व्याप्तिरित्यर्थ: ( कु० ३ ) । आचार्यास्तु व्यतिरेकसह-
भारणान्वयष्यातिरेव गृह्यते । न च व्यतिरेकव्याप्तिज्ञानमपि अनुमितौ