This page has not been fully proofread.

न्यायकोशः ।
 
१८८ ) । तच व्याकरणादौ पूर्वसूत्रस्थपदस्योत्तरसूत्रे आकापूरणार्थ-
मनुसंधानम् । यथा इको यणचि इत्यतः अचीति सप्तम्यन्तपदस्य आद्गुणः
इत्यादावनुवृत्तिः । अनुवृत्तिस्त्रिधा सिंहावलोकितवत् मण्डूकतिवत्
गङ्गास्रोतोवत् इति ( दि० ४। १८८ ) ।
 
-
 
अनुष्यवसाय:
 
- व्यवसायगोचरं प्रत्यक्षम् ( म० प्र० ६९ ) । यथा
घटज्ञानानन्तरं घटमहं जानामि इति मानसं ज्ञानम् । २ ज्ञाततावभा-
सकं ब्रह्मचैतन्यमिति मायावादिनः (पञ्च० कूट० ) ।
 
अनुशासनम् – १ गमकम् । ज्ञापकं शास्त्रम् । यथा अथ शब्दानुशासन-
मित्यादौ । अनुशासन मिति हि शास्त्रमाह। अनुशिष्यते व्याख्यायते लक्ष-
णभेदोपायफलसहितो योगो येन तदनुशासनमिति व्युत्पत्तेः ( सर्व ०
सं० १० ३३७ पात ० ) । २ यथार्थज्ञापनम् । यथा ऋणे देये प्रतिज्ञाते
पञ्चकं शतमर्हति । अपह्नुते तद्विगुणं तन्मनोरनुशासनमित्यादौ ।
३ दण्डनम् । यथा एष स्तेनानुशासी राजेत्यादौ ( विक्रमोर्वशी ) ।
४ देशनया प्रवर्तना। यथा पुत्रं धर्ममनुशास्तीत्यादौ धात्वर्थः ( श०
प्र० ९९ ) । अत्र पुत्रनिष्ठस्य देशनया प्रवर्तनस्यानुकूलव्यापारवानि-
त्यर्थः । तथाविधो व्यापार संध्यां विघेहि समिधमाघेहि इत्याधुपदेश-
रूपः ( श० प्र० ९९ ) ।
 
-
 
अनुषङ्गः - १ अविनाभावः । यथा सुखं दुःखानुषङ्गा दुःखमेवेत्यादौ ( स०
भा० ४१ ) । २ नेदीय स्थानान्तरस्थितस्य (पदस्य ) कचिदनुसंधानम्
( दि० ४।१८८ ) । यथा पञ्चावयववाक्येषूपनयवाक्यस्थस्य अयम् इति
पदस्य तस्माद्वहिमान् इति निगमनवाक्येनुषङ्गः । ३ [ क ] प्रसङ्गः ।
स चान्योदेशेन प्रवृत्तस्य तन्नान्तरीयकविधयान्यसिद्धिः । यथा-
क्षयं केचिदुपात्तस्य दुरितस्य प्रचक्षते । अनुत्पत्तिं तथा चान्ये प्रत्य-
बायस्य मन्यते । नित्यक्रियां तथा चान्ये धनुषङ्गफलां श्रुति-
मित्यादी ( बाच० ) । नाम्तरीयकविधयान्यसिद्धिश्च यथा - विप्रवध-
प्रायश्चित्तेन तमान्तरीयकविधया अवगोरणदण्डनिपातनप्रायश्चित्तसिद्धिः ।