This page has not been fully proofread.

न्यायकोशः ।
 
प्राणबियोगवती विलक्षणशब्दप्रयोक्तृत्वात् इत्यादिरूपः ( नील० ४ पृ०
३० ) । अत्रेदं बोध्यम् । तात्पर्यानुपपत्तिरेव लक्षणाबीजम् । तथा च
गच्छ गच्छसि इत्यत्रापि मा गाः इत्यर्थे गमनाभावप्रतीतीच्छयोच्चरितत्व-
रूपतात्पर्य मात्र
मुन्नीयते संभाव्यते वा । तेन लक्षणया तत्र शाब्दबोधोप-
पत्तौ व्यञ्जनाया वृत्त्यन्तरत्वं नास्त्येव ( त० प्र० ख० ४ पृ० ६९ ) इति ।
एवम् वार्षी स्नातुमितो गतासि न पुनस्तस्याधमस्यान्तिकम् ( काव्य-
प्रका० उ०२ लो० ४ टी० ) इत्यादावप्यूह्यम् । [ख ] वैया-
करणास्तु मुख्यार्थबाधग्रहनिरपेक्षबोधजनको मुख्यार्थसंबद्धासंबद्धसाधा-
रणः प्रसिद्धाप्रसिद्धार्थविषयको वकादिवैशिष्ट्यज्ञानप्रतिभाद्युहुद्धः संस्कार-
विशेष: इत्याहुः ( ल० म० आकाङ्क्षादिवि० पृ० १७ – १८) ।
 
-
 
व्यतिरेकः - १ अभावः । [ क ] अत्यन्ताभाव: ( न्या० बो० २५०
१५) ( वाक्य० २ पृ० १५) । यथा पदस्य पदान्तरव्यतिरेकप्रयु-
क्तान्वयाननुभावकत्वमाकाङ्क्षा इत्यादौ । यथा वा अन्वयेन व्यतिरेकेण च
व्याप्तिमत् ( त ० सं० ) इत्यादौ व्यतिरेकः अभावः । यथा वा स्वव्य-
तिरेकेण घूमव्यतिरेकानुमानात् इत्यादौ व्यतिरेकः अभावः ( म० प्र० २
पृ० ३० - ३१ ) (वै० ५ । १ । ३ ) । [ ख ] भिन्नत्वम् । यथा यत-
स्तयतिरेकेण नान्यत्किंचिदिहाप्यते इत्यादौ । २ साध्याभावहेत्वभावयोः
साहचर्यम् । यथा व्यतिरेकव्याप्तिः इत्यादौ व्यतिरेकः ( सि० च० २
पृ० २६) । ३ कचित् व्यतिरेकव्याप्तिः । यथा अन्वयव्यतिरेकि
लिङ्गम् इत्यादौ व्यतिरेकः ( वाक्य० २ पृ० १५ ) । ४ [ क ]
कारणाभावकार्याभावयोः साहचर्यम् । [ ख ] कारणाभावाधिकरणे
कार्यासत्त्वम् ( राम० १ पृ० ५२ ) । यथा यदभावे यदभावः इति ।
स यथा चक्रचीवरादिघटितस्य दण्डस्यासवे घटस्यासत्त्वम् इति व्यति-
रेकः ः । अयं व्यतिरेकः कारणत्वग्रहजनकः इति ज्ञेयम् ( त० प्र० मङ्ग-
ल० पृ० १ ) । ५ अत्यन्ताभावप्रतियोगित्वम् । तदर्थस्तु यस्यात्यन्ता-
भाषः प्रसिद्ध्यति तत्त्वम् इति । यथा व्यतिरेकिसाभ्यकस्थले वह्निमानि-
त्यादौ बहेर्व्यतिरेकः । ६ कचित् निश्चितकोटिद्वयवव्यावृत्तत्वज्ञानम् ( ग०
१०३ न्या० को•