This page has not been fully proofread.

व्याक्कर ।
 
( काव्यप्र० उ० २ लो० १८ वृ० ) । अर्थनिष्ठा व्यञ्जना तु. गोल-
मर्कः इत्यादौ । माए घरोवअरणम् ( का० प्र० २।६ ) इत्यादौ च विज्ञेया।
आलंकारिकैर्हि अभिधालक्षणयोरिव व्यञ्जनाया अपि वृत्यन्तरत्वमगत्या
स्वीक्रियते । तथा हि । गङ्गातीरे घोषः इति प्रयोगे स्वायत्ते सत्यपि
गङ्गायां घोषः इत्यनन्विताभिधानं शैत्यपावनत्वादिप्रतिपत्त्यर्थम् इत्यङ्गी-
कर्तव्यम् । न च सा प्रतीतिर्लक्षणयाप्युपपद्यते । केवलतीरलक्षणयैवानुपप-
त्तिपरिहारे शैत्यपावनत्वादिविशिष्टलक्षणायां मानाभावात् । मुख्यार्थबाधा-
दित्रयाभावात् । तस्मात् शैत्यपावनत्वादिप्रतिपत्त्यर्थं व्यञ्जना आवश्यकी ।
एवम् गच्छ गच्छसि चेत्कान्त पन्थानः सन्तु ते शिवाः । ममापि जन्म
तत्रैव भूयायत्र गतो भवान् ॥ इत्यत्रापि तव गमने मम मरणं भविता
इत्यतः त्वं मागाः इति व्यज्यते इति व्यञ्जनाख्यातिरिक्ता वृत्तिरवश्यमङ्गी-
कर्तव्या इति ( काव्यप्रकाश उल्ला० २ श्लो० १४ – २० ) ( त० प्र०
४ पृ० ६९ ) ( नील० ख० ४ पृ० ३० ) । नैयायिकास्तु तन्न सहन्ते ।
तथा हि । व्यञ्जना शक्तौ लक्षणायां चान्तर्भवति । अत्रायं भावः । सा
व्यञ्जना शब्दशक्तिमूला अर्थशक्तिमूला चेति द्विविधा । तत्र शब्दश-
क्तिमूला यथा नानार्थकस्थले दूरस्था भूधरा रम्या इत्यादौ भूधरशब्देन
पर्वतानामिव राज्ञामपि शक्त्यैव प्रतीतिः संभवति इत्यत्रत्या आलंकारि-
कमतप्रसिद्धा अमिधामूला शाब्दी व्यञ्जना शक्तावन्तर्भवति । एवम् भद्रा-
त्मनः इत्यादावपि ज्ञेयम् । गङ्गायां घोषः इत्यादौ तु शैत्यपावनत्वादिवि-
शिष्टतीरप्रतीतिरपि लक्षणासाम्राज्यादेव संभवति । तत्र लक्षणाकल्पिका-
यास्तात्पर्यानुपपत्तेरेव सद्भावात् किमतिरिक्तव्यञ्जनया इत्यत्रत्या आलंका-
रिकमतप्रसिद्धा लक्षणामूला शाब्दी लाक्षणिकपर्यायपरिवृत्त्य सहत्वलक्षणा
व्यञ्जना लक्षणायामन्तर्भवति । अर्थशक्तिमूला लक्षणा यथा गच्छ
गच्छसि इत्यादौ । अत्र हे प्रिय तव गमनोत्तरं मे प्राणवियोगो भविष्यति
अतस्त्वया न गन्तव्यम् इत्याद्यर्थोनुमानादिना गम्यते इत्यत्रत्या आलं-
कारिक मतप्रसिद्धा भार्थी व्यञ्जना अनुमानेन्तर्भवति ( नीक० ख०
8 पृ० ३० ) इति । तत्रानुमानप्रकारस्तु इयं मदीग्रगमनोत्तरकालिक-