This page has not been fully proofread.

८१४
 
न्यायकोशः ।
 
नक्षत्रं विष्णुदेवताकत्वात् वैष्णवशब्देनोच्यते इति पुरुषार्थचिन्तामणिः
( पृ० ३५४ ) ।
 
वौषट् – देवोद्देश्यकहविस्त्यागः । अत्र शिष्टं तु वषट्शब्दे दृश्यम् ।
व्यक्तिः - १ पदार्थमात्रम् । यथा जात्यादिरपि व्यक्तिः । तल्लक्षणं च व्यक्ति-
त्वम् । तच्च प्रमेयत्वमेव ( गौ० वृ० २/२/६६ ) । एवं च सिद्धान्ते
सर्वेषां पदार्थानां व्यक्तिः इति संज्ञा इत्याशयः । २ [ क ] व्यक्तिर्गुण-
विशेषाश्रयो मूर्तिः (गौ० २१२/६६) । इदं लक्षणं च जात्याक्कृतिशक्तिविष-
यव्यक्तेरेव इति विज्ञेयम् (गौ० वृ० २/२/६६) । व्यज्यत इति व्यक्तिरि-
न्द्रियग्राह्येति न सर्वद्रव्यं व्यक्तिः । यो विशेषगुणानां स्पर्शान्तानां गुरु-
त्वघनत्वद्रवत्व संस्काराणामव्यापिनः परिमाणस्याश्रयो यथासंभवं तद्रव्यम् ।
मूर्ति: मूर्छितावयवत्वादिति (वात्स्या० २/२/६६ ) । [ख] जात्या-
कृतिसमानाधिकरणः संख्यादिभिन्नो यो गुणस्तदाश्रयः । यथा गवादि-
र्व्यक्तिः । परे तु जात्याश्रयो द्रव्यम् व्यक्तिः इत्याहुः । अन्ये तु परि-
च्छिन्नपरिमाणस्याश्रयो मूर्तिः सैव व्यक्तेर्लक्षणम् इत्याहुः ( गौ० वृ०
२।२।६६ ) । संख्यादिविशिष्टा व्यक्तिः इति मञ्जूषाकृद्वक्ति । ३ पृथ-
गात्मतारूप एकैकविशेष इत्यमरसिंह आह । ४ प्रकाश: ( प्रकटीभावः ) ।
५ जनः इति काव्यज्ञा आहुः ।
 
व्यक्त्यमेदः -[क] स्वाश्रयव्यक्तेरैक्यम् । इदं चाकाशत्वादेर्जातित्वे बाघ-
कम् इति बोध्यम् ( नील० १ पृ० ६ ) ( दि० १ ) । तदुक्तमुदय-
नाचार्यै: व्यक्तेरभेदस्तुल्यत्वं संकरोधानवस्थितिः । रूपहानिरसंबन्धो
जातिबाधकसंग्रहः ॥ ( कि०व० द्रव्य नि० ) इति । [ख] एकव्यक्ति-
कत्वम् ( दि० १) । एकाश्रयकत्वमित्यर्थः । स्वाश्रयनिष्ठमेदाप्रतियोग्या -
यकत्वम् इति फलितोर्थ: ( राम० १ सामान्यनि० पृ० ३५ ) । अनुग-
मस्तु स्वप्रतियोगिवृत्तित्व स्वसामानाधिकरण्य एतदुभयसंबन्धेन मेदाविशि-
ष्टान्यत्वम् इति । यथा आकाशत्वस्य व्यक्त्यमेदः इति आकाशत्वं न
जातिः । अयं भावः बहुवृत्त्येकधर्मस्य सामान्यतया सर्वसिद्धत्वात् एक-
व्यक्तौ जातिरनभ्युपेया ( दि० १ सामान्यनि० पृ० ३४ ) इति ।