2023-02-20 00:56:53 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
८२३
(मा० १० १ लो० ४५) इत्यत्र शब्दो वैशेषिकोस्ति । ४ व्यवच्छेदकः ।
यथा भूतात्मनां वैशेषिकगुणवत्वं साधर्म्यम् ( प्रशस्त ० ) इत्यादौ । अत्र
व्युत्पत्तिः । विशेषो व्यवच्छेदः । विशेषाय स्वाश्रयस्येतरेभ्यो व्यवच्छेदाय
प्रभवति इति वैशेषिकः ( न्या० क० पृ० २४) ।
वैश्वदेवः -( कर्मनामधेयम्) चातुर्मास्ययागस्य चत्वारि पर्वाणि वैश्वदेवः
वरुणप्रघासः साकमेधः शुनासीरीयश्चेति । तेषु प्रथमे पर्वण्यष्टौ यागा
विहिताः आग्नेयमष्टाकपालं निर्वपति सौम्यं चरुम् सावित्रं द्वादशकपालम्
सारस्वतं चरुम् पौष्णं चरुम् मारुतं सप्तकपालम् वैश्वदेवीमामिक्षाम्
द्यावापृथिवीमेककपालम् इति । एतेषामष्टानां संनिधौ वैश्वदेवेन यजेत
इति पठितत्वात्पूर्वोक्तानामष्टानां यागानां वैश्वदेव इति संज्ञा बोध्या
( जै० न्या० अ० १ पा० ४ अधि० ११) ।
-
वैष्णवः - १ [ क ] विष्णूपासकत्वा द्विष्णुसेवकः सात्त्विकचेतनः । यथा
निम्नगानां यथा गङ्गा देवानामच्युतो यथा । वैष्णवानां यथा शंभुः पुरा-
णानामिदं तथा ॥ ( भाग० स्क० १२ अ० १३ श्लो० १६ ) इत्यादौ ।
यथा वा श्रीमध्वाचार्यो वैष्णवः । वैष्णवमार्गप्रवर्तका विष्णुस्वामिनिम्बा-
करामानुजमध्वाख्या श्चत्वार आचार्याः इति वलमीयाः मन्यन्ते । अत्र
व्युत्पत्तिः विष्णुर्देवतास्य इति विष्णोरयमिति वा वैष्णवः । अत्र विष्णुस्तु
परब्रह्मैव । तत्र प्रमाणानि यमन्तःसमुद्रे कवयोवयन्ति यदक्षरे परमे
प्रजाः । यतः प्रसूता जगतः प्रसूती तोयेन जीवान्विससर्ज भूम्याम् ।
तदेवर्त तदु सत्यमाहुस्तदेव ब्रह्म परमं कवीनाम् ( म० ना० १ १ १ २ )।
तन्नो विष्णुः प्रचोदयात् । अजस्य नाभावध्येकमर्पितं यस्मिन् विश्वा भुव-
नानि तस्थुः (मध्व • भाष्योदाहृतश्रुतयः ) इति । विष्णोर्नु कं वीर्याणि
प्रवोचं यः पार्थिवानि रजांसि विममे इत्यादिना तस्य महिमा । [ ख ]
परमापदमापन्नो हर्षे वा समुपस्थिते । नैकादशीं त्यजेद्यस्तु यस्य दीक्षास्ति
वैष्णवी ॥ समात्मा सर्वजीवेषु निजाचारादविद्रुतः । विष्वर्पिताखिला-
चारः स हि वैष्णव उच्चते ॥ ( पु० चि० पृ० १५३ ) । २ श्रवण-