This page has not been fully proofread.

८१२
 
न्यायकोशः ।
 
वैराग्यम् -[ क ] दोषदर्शनाद्विषयत्यागेच्छा ( प्रशस्त० २ १० ३३ ) ।
[ख] भोगानभिषङ्गः ( न्या० वा० १ पृ० २७) । [ग] योगशास्त्र-
ज्ञास्तु दृष्टानुश्रविकविषयवितृष्णस्य बशीकारसंज्ञा वैराग्यम् ( पात० यो ०
सू० १११५ ) । ऐहिकपारत्रिक विषयादौ दोषदर्शनान्निर मिलाषस्य ममैते
विषया वश्याः नाहमेतेषां वश्यः इति विमर्श: इत्याहु: ( सर्व० सं० पृ०
३६६ पात० ) । वैराग्यं च तत्त्वज्ञानाद्विषयदोषदर्शनाद्भवति ( न्या०
वा० १ पृ० २७ ) । तच्च वैराग्यम् शमदमानन्तरं ज्ञानद्वारा मोक्षहे-
तुश्च भवति ( विवेकचूडामणौ ) ।
 
-
 
वैलक्षण्यम् - मेदकधर्मः । शिष्टं तु विलक्षणशन्दे द्रष्टव्यम् ।
वैशिष्ट्यम् – १ [ क ] संबन्धः । यथा भूतलं घटविशिष्टम् इत्यादौ घट-
भूतलयोः संयोगनामा संबन्धो वैशिष्यम् । [ ख ] यस्य यत्र यः संबन्धः
स एव तत्र तस्य वैशिष्ट्यम् । यथा दण्डी पुरुषः इति ज्ञाने दण्डसंबन्धः
पुरुषेवगम्यते ( चि० १ निर्विक० पृ० ८१२ ) । २ वैलक्षण्यम् ३
मेदो वा । ४ आधेयोतिशयविशेषः इति केचिद्वादिनः स्वीकुर्वन्ति ।
 
वैशेषिकम् – १ कणाद प्रणीतं शास्त्रम् । अत्रेदं विज्ञेयम् । कश्यपगोत्रोत्पन्नः
-
कणादमुनि: अथातो धर्मे व्याख्यास्यामः इत्यारम्य तद्वचनादास्नायस्व
प्रामाण्य मिति इत्येतत्पर्यन्तं दशाध्यायात्मकं सूत्रोपनिबद्धं वैशेषिकदर्शनाख्यं
तर्कशास्त्रं प्रणिनाय इति । अत्र कणादशब्दस्य व्युत्पत्तिः । तस्य कापोतीं
वृत्तिमनुतिष्ठतो रथ्यानिपतितांस्तण्डुलकणानादाय प्रत्यहं कृताहार नि-
मित्ता कणादसंज्ञा । अत एव निरवकाशः कणान्वा भक्षयतु इत्युपाल-
म्भस्तत्रभवताम् ( न्या० क० पृ० २ ) । शास्त्ररूपार्थे वैशेषिकशब्दस्य
व्युत्पत्तिः विशेषं पदार्थभेदमधिकृत्य कृतो ग्रन्थः इति । २ तच्छात्रा-
भिज्ञः । यथा प्रशस्तपादोद्योतकराचार्यादिर्वैशेषिकः । अत्रोक्तम् द्विस्वे
च पाकजोत्पत्तौ विभागे च विभागजे । यस्य न स्खलिता बुद्धिस्तं वै
वैशेषिकं विदुः ॥ ( सर्व० सं० पृ० २२० औलू० ) इति । ३ विशे-
षसंज्ञक: गुणः । यथा आकाशस्य तु विज्ञेयः शब्दो वैशेषिको गुणः