2023-02-20 00:56:53 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
लिङ्गस्याभावदर्शनम् । तद्यथा यदद्रव्यम् तत् क्रियावन्न भवति यथा
सत्ता इति ( प्रशस्त ० २ पृ० ३० ) ।
वैधर्म्यनिदर्शनाभासाः - लिङ्गानुमेयोभयाव्यावृत्ताश्रयासिद्धाव्यावृत्तविपरी-
तव्यावृत्ताः । तद्यथा नित्यः शब्दः अमूर्तत्वात् यदमूर्त तन्नित्यं दृष्टं यथा
परमाणुः यथा कर्म यथा स्थाली यथा तमोम्बरवत् । यद्रव्यं तक्रिया-
वद्दृष्टमिति च ( प्रशस्त० २ पृ०४८) ।
वैधर्म्यम् – १ [ क ] व्यावृत्तो धर्मः (३० उ० ११ १२ १४ पृ० १६) ।
विरुद्धो धर्मः इति फलितोर्थः (मु० १ ) । [ ख ] अवर्तमानो धर्मः ।
यथा यदुक्तं यस्य साधर्म्यं वैधर्म्यमितरस्य तत् ( प्रशस्त ० १।९ पृ०
३९ ) ( भा०प० श्लो० २९) इत्यादौ अभावस्य समवायिकारणत्वं
वैधर्म्यम् । यदुक्तमित्यस्यार्थश्च ज्ञेयत्वादिकं विहाय यस्य पदार्थस्य
यत्साधर्म्यमुक्तम् तदितरस्य तद्वैधर्म्यम् इति । ज्ञेयत्वादिकं तु न कस्यापि
चैधर्म्यम् । केवलान्वयित्वात् इति भावः (मु० १ ) । अत्र साधर्म्य-
निरूपणं तु साधर्म्यशब्दव्याख्यानावसरे संपादयिष्यते । [ग] तद्वि-
रोधिधर्मवत्वम् । यथा पाकस्थले श्यामघटवैधर्म्यं रक्तघटे ( वै० उ०
७/२/२ पृ० ३१२ ) । २ व्यतिरेकः ( गौ० वृ० १११ । ३५ ) । यथा
तथा वैधर्म्यात् ( गौ० १।१।३५ ) इत्यादौ ।
वैधर्म्यसमः ~~ ( जातिः ) [ क ] चैधर्म्येणोपसंहारे तद्धर्मविपर्ययोपपत्तेर्वैध-
र्म्यसमः ( गौ० ५/१/२ ) । तदर्थश्च उपसंहारे साध्यस्योपसंहरणे
बादिना कृते तद्धर्मस्य साध्यरूपधर्मस्य यो विपर्ययो व्यतिरेकः तस्य वैध-
म्ये॑ण केबलेन व्यायनपेक्षेण यदुपपादनं ततो हेतोर्वेधर्म्यसम उच्यते ।
अत्र वैधर्म्यत्वमात्रं गमकतौपयिकम् इत्यभिमानात् सत्प्रतिपक्षदेशना-
भासोयम् । अनैकान्तिकदेशनाभासो वायम् (न्या० वा० ) इति वार्तिके
अनैकान्तिकपदं सत्प्रतिपक्षपरम् ( गौ०वृ० ५।१।२) । [ख] वादिना-
न्वयेन व्यतिरेकेण वा साध्ये साधिते प्रतिवादिनो वैधर्म्यमात्रप्रवृत्तहेतुना
तदभावापादनम् । यथा शब्द : अनित्यः कृतकत्वाद्धटवत् व्यतिरेकेणा-
काशवद्वा इति स्थापनायाम् अनित्यघटवैधर्म्यादमूर्तत्वान्नित्यः स्यात् विशेषो
८१०