This page has not been fully proofread.

न्यायकोशः ।
 
;
 
:
 
मभागः इति बेदानामन्तो निर्णयो यत्र सः इति वा वेदान्तः । अत्र
• उपनिषदर्थनिर्णायकत्वेन ब्रह्मसूत्राणामपि वेदान्तत्वमुपचर्यते इति विज्ञे-
यम् । अत्रेदं बोम्यम् । श्रीपूर्णप्रज्ञाचार्यैः (मध्वाचार्यैः ) विरचिताद्भाष्या-
व्याक् ब्रह्मसूत्राणां व्याख्यातार एकविंशतिसंख्यका आसन् । ते च
भारतीबिजयः १ संविदानन्दः २ ब्रह्मघोष: ३ शतानन्दः ४ उद्धतः
५ विजयः ६ रुद्रभट्टः ७ वामनः ८ यादवप्रकाशः ९ रामानुजः १०
भर्तृप्रपञ्चः १९ द्रविड ( शठकोपः ) १२ ब्रह्मदत्त: १३ भास्करः
१४ पिशाचः १५ वृत्तिकार : ( बौधायन: ) १६ विजयभट्टः १७
विष्णुकान्तः १८ वादीन्द्रः १९ माधवदासः २० शंकरभारती २१
( मध्वविज०) इति । ततः पूर्णप्रज्ञाचार्यः २२ राघवेन्द्रस्वामी २३ वल्छु-
भाचार्य २४ श्चेति । तत्र शंकरभारती रुद्रस्य मणिमतो वावतारः । तस्य
जन्म विक्रमशाके ८४५ वर्षे केरलदेशे कालपी ( कालडी ) ग्रामे माता-
पितृभ्यामार्याम्बा शिवभट्टाख्याभ्यामभूत् । तस्य दैशिकाचार्यो गोवि-
न्दभट्टः । परमगुरुर्गौडपादः । गौडपादस्य तु वक्कनामा बौद्धो गुरुः । शंक-
रभारत्या अभ्यापको ब्रह्मदत्तः । मतं तु मायाबादः इति । रामानुजस्य च
शेषावतारत्वाभिमतस्य जन्म शाके १०४९ वर्षे चोलदेशे भूतपुर्यो प्रेम-
धुलाख्यायां (पेरंबुदूर इति ग्रामे ) मातापितृभ्यां कान्तिमतीकेशवा-
ख्याम्यां समजनि । एतस्याध्यापकस्तु मातुलो यादवप्रकाश एव । मतं
विशिष्टाद्वैतम् । विशिष्टाद्वैतमतप्रवर्तकः कूटस्थस्तु शठकोपाचार्यः इति ।
वायोरवतारस्य मध्वाख्यपूर्णप्रज्ञाचार्यस्य च जन्म शाके ११०० वर्षे
कर्णाटदेशे रजतपीठाख्ये ( उडपी ) ग्रामे मातापितृभ्यां वेदवेदीमध्यगे-
हाख्याभ्यां समजनि । एतस्याध्यापकोच्युतप्रेक्ष्याचार्यः । मतं तु द्वैतवादः
इति । वहुभाचार्यस्य कृष्णस्वरूपत्वाभिमतस्य तु जन्म संवत् १५३५
वर्षे आन्ध्रदेशे काकरवाये ग्रामे मातापितृभ्यां यल्लम्मालक्ष्मणा
समभवत् । एतस्याभ्यापको नारायणभट्टः । मतं तु शुद्धाद्वैतम् इति ।
चेदिः - आहषनीयगार्हपत्यमध्यवर्तिनी चतुरङ्गुलखाता भूमि: ( जै० न्या
अ० १. पा० ३ अधि० ४ ) ।
 
-