This page has not been fully proofread.

न्यायकोशः ।
 
मिति वा । अङ्ग
 
.
 
पथ्यतामित्यष्येषणार्थम् । पच्यतामेवेति वावधार-
णार्थम् ( वात्स्या० २११/६५ ) । [ ख ] प्रमाणान्तरेणावधृत-
स्यार्थस्य प्रतिपादकः । यथा अग्निर्हिमस्य भेषजमित्यादिः ( सि० च०
३३ ) ( म० प्र० ६४ ) । मेषजं विरोधीत्यर्थः । अत्र हिमविरोधित्व-
स्याओौ प्रत्यक्षावगतत्वादेतद्वाक्यस्यानुवादकत्वमिति बोध्यम् ( लौ०
भा० ) । अन्यरीत्यानुवाद स्त्रिविधः । भूतार्थानुवादः स्तुत्यर्थानुबादः
गुणानुवादश्चेति । आद्यो यथा सदेव सौम्य इदमप्र आसीदित्यादिः
वज्रहस्तः पुरंदर इत्यादिश्च । अयं च विधिसममिव्याहाराभावेष्यनुवादो-
स्तीति वृत्तिप्रन्थाल्लभ्यते ( गौ० वृ० २।१।६५ ) । द्वितीयः वायुर्वे क्षेपिष्ठे-
त्यादिः । तृतीयः अग्निहोत्रं जुहोतीति वाक्येन प्राप्तस्याग्निहोत्रहोमस्य
दना जुहोति इत्यादिवाक्ये अनुवादः ( वाच० ) । अत्र तादृशहोमे
दधिकरणकत्वमात्रं गुणो विधीयत इति बोध्यम् । तर्कप्रकाशेनुषादो-
दाहरणं यथा-यन दुःखेन संभिन्नम् तत्सुखं स्वःपदास्पदमित्यादि
बाक्यम् । यथा वा परिणतिसुरसमाम्रफलम् परिणतिविरसं पनसफ-
लम् इत्यादि वाक्यं चानुवादः । प्रत्यक्षप्रमाणादिना तत्तदर्थनिर्णयात्
( त० प्र० ख० ४ पृ० १२ ) । [ ग ] ज्ञातस्य कथनमनुवादः
( जै० न्या० अ० १ पा० ४ अधि० ६ )।
 
अनुवादकत्वम् - गृहीतप्रा झनुभव मात्रजनकत्वम् । स्वसमानाधिकरणस्वाव्य-
वहितपूर्ववर्तिस्वसमानाकार निश्चय विषय विषयक तद्वद्विशेष्य कतत्प्रकारकानु-
भवमात्रजनकत्वमिति यावत् । अत्र स्वपदमनुभवादिपरम् (कु० व्या० ३ ) ।
अनुवाद्यता - प्रमाणान्तरसिद्धस्य किंचिद्धर्मविधानार्थं पुनरुपन्यास्यता ।
यथा पर्वतो वह्निमानित्यादौ पर्वतरूपोद्देश्यस्य सिद्धत्वेपि वहिमस्वरूप-
र्मविधानार्थमुपन्यासः ( वाच० ) ।
 
-
 
अनुवृत्चत्वम् - १ सामानाधिकरण्यम् ( ग० सव्य० ) । यथा धूमानु-
वृत्तो वह्निरित्यादी वहाँ घूमानुवृत्तत्वम् । २ धारातः प्राप्तत्वम् । यथा
विज्ञानवादिबौद्धमते विज्ञानसंतानस्यानुवृत्तत्वम् ।
 
अनुवृत्तिः - दवीयः स्थानान्तर स्थितस्य (पदस्य) सर्वत्रानुसंधानम् (दि० ४।