2023-02-20 00:56:51 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
८०३
0
तच्च स्वतः प्रमाणम् । अत्र सूत्रम् त्रैविधवृद्धानां तु वेदाः प्रमाणमिति
निष्ठा ( आपस्त० सू० २१९/३/९ ) इति । मन्त्रायुर्वेदप्रामाण्यवच
तत्प्रामाण्यमाप्तप्रामाण्यात् ( गौ०२।१।६८ ) इति च । स्वतःप्रामाण्यं
च प्रमाणान्तरानधीनप्रमितिजनकत्वम् । वेदस्य स्वतःप्रामाण्यव्यवस्थापनं
तु धर्मब्रह्ममीमांसादौ तत्र तत्राचार्यैः कृतम् विस्तरभयात्तन्नात्र संगृहीतम् ।
किं च तद्वेदवाक्यम् अनेकविद्याधर्मस्थानम् देवतिर्यव्यनुष्यवर्णाश्रमादिप्र-
विभागहेतुभूतं च । यथा अग्निमीळे पुरोहितम् (ऋग्वे ० ) इषे स्वोर्जे त्वा
(यजुर्वे०) अग्न आपाहि वीतये (सामवे०) शं नो देवीरभिष्टय आपो भवन्तु
पीतये (अथर्ववे०) इत्यादि । वेदत्वं च विजातीयधर्मजन काध्ययनप्रतियोगि
त्वम् ( कु० टी० ५ ) । अथ वा शब्दतदुपजीविप्रमाणातिरिक्त प्रमाण-
जन्य प्रमित्यविषयार्थकत्वे सति शब्दजन्यवाक्यार्थज्ञानाजन्यप्रमाणशब्दत्वम्
( कु० टी० ५) ( चि० ४ ) (व० उ० ६/१/१ ) ( वै० वि०
६ । १ । १ ) । अत्र लक्षणदोषं वारयति ईश्वरप्रमाया अजन्यत्वात् वेदार्थ-
स्यानुमानविषयत्वेष्यनुमाना देवेंदोषजीवकतया स्मृतीनां भारतादिभागस्य
च वेदसमानार्थकत्वेपि शब्दजन्यधीजन्यत्वात् वेदादर्थं प्रतीत्यैव तत्प्रण-
यनात् ( चि० 8 ) । अथ वा ऋग्यजुःसामाथर्वान्यतमत्वम् (वै० वि०
६।१।१ ) । अपूर्वार्थप्रतिपादकत्वे सति नित्यसर्वज्ञप्रणीतवाक्यत्वं वा ।
वेदत्वं च अखण्डोपाधिः इति प्राच आहुः ( म०प्र० ४ पृ० ६६) ।
[ ख ] अपौरुषेयं वाक्यं वेदः इति मीमांसकाः प्रतिपेदिरे ( लौ० भा०
पृ० १३ ) ( सर्व० पृ० २७० जैमि० ) । वेदस्य नित्यत्वेनापौरुषेय-
त्वम् । तत्र प्रमाणं तु वाचा विरूपनित्यया इति श्रुतिः । यो ब्रह्माणं
विदधाति पूर्वम् यो वै वेदा५श्व प्रहिणोति तस्मै ( श्वे० ६।१८) इति च
श्रुतिः । नाचिकेतमुपाख्यानं मृत्युप्रोक्त सनातनम् । अनादिनिधना
नित्या वागुत्सृष्टा खयंभुवा इति स्मृतिः ( प्र० च० परि० १ पृ० ४१)
( माघ ० भाष्य ० ) ( शाब० मा० १।१।२३ ) । अपौरुषेयश्वं तु
प्रमाणान्तरेणार्थमुपलभ्य विरचितं यत् तद्भिन्नत्वम् इति चिन्त्यम् ।
अत्र शकते जैमिनिराचार्यः वेदांश्चैके संनिकर्षे पुरुषाख्याः ( जैमि०
अ० १ पा० १ सू० २७) इति । तदर्यस्तु पुरुषेण हि समाख्या-