2023-02-20 00:56:51 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
•
तीक्ष्णगतिजनकगुणत्वम् इति कश्चिदाह ( ल० व० ) । [ख] द्वितीय-
पतनासमवायिकारणम् ( सि० च० गु० पृ० ३५ ) । अत्र प्रथम-
पतनस्यासमवाथिकारणं तु गुरुत्वमेव इति तब्युदासाय द्वितीयपदम् ।
[ग] द्वितीयादिक्रियाहेतुः (प्र० प्र० ) ( त० दी० ) । [घ ] कर्मज:
संस्कारः । यथा यष्ट्यप्रे च समं स्थितो ध्वजपट: प्रान्ते च वेगानिलात्
( विक्रमोर्व० ११४ ) इत्यादौ वेगः । स च वेगो मूर्तमात्रवृत्तिः
( प्र० प्र० ) ( भा०प० ) ( त० सं० ) ( त० कौ० ) । अत्र
भाष्यम् वेगो मूर्तिमत्सु पञ्चसु द्रव्येषु निमित्तविशेषापेक्षात्कर्मणो जायते ।
नियतदिक्क्रियाप्रबन्धहेतुः स्पर्शवद्रव्यसंयोगविरोधी । क्वचित् कारणगुण-
पूर्वप्रक्रमेणोत्पद्यते ( प्रशस्त ० २ गुण० ० ५३ ) इति । वेगो द्विविधः
कर्मजः वेगजश्च । तत्रायः शरादौ नोदनजनितेन कर्मणा जायमानो
वेगः प्रसिद्धः । तेन च पूर्वकर्मनाशः । तत उत्तरकर्म । एवमपि ।
वेगं विना कर्मणः कर्मप्रतिबन्धकत्वात् पूर्वकर्मनाश उत्तरकर्मोत्पत्तिश्च न
स्यात् ( मु० गु० पृ० २३२ ) इति । वेगजो वेगस्तु वेगवत्कपाल-
जन्यघटे प्रसिद्धः ( मा० प० श्लो० १५९ ) (मु० ) ( सि० च०
गु० पृ० ३५) ( त० व० पृ० २३०) । मीमांसकास्तु निरन्तरो
गतिसंतान एव वेग इत्याहुः (प० मा० ) । तन्न सहन्ते नैयायिकाः
वेगोपि गुणान्तरम् न कियासंततिमात्रम् । मन्दगतौ वेगप्रतीत्यभावात् ।
क्रियाक्षणानामाशूत्पादनिमित्तो वेगव्यवहार इति चेन्न। अलातचक्रादिषु
क्रियाक्षणानां निरन्तरोत्पादव्ययवतां प्रत्येकमन्तराग्रहणेनाशूत्पादस्य
प्रत्यक्षेणाप्रतीतेः । वेगप्रत्ययस्य च भावात् । व्यक्ता च लोके क्रिया-
वेगयोर्भेदावगतिः । वेगेन गच्छति इति प्रतीते : ( न्या० क० साधर्म्य
पृ० २२) ( दि० गु० पृ० २३३ ) । २ शारीरकशास्त्रज्ञा भिषजस्तु
मूत्रविष्ठादिनिःसारणयत्नः इत्याहुः । अत्र प्रसङ्गत उदाहियते स्वभावतः
प्रवृत्तान मलादीनां जिजीविषुः । न वेगं धारयेद्धीरः कामादीनां च
धारयेत् ॥ ( राजनि० ) इति । ३ समूहः इति काव्यज्ञा आहुः ।
वेदः – १ ( शब्दः ) [ क ] लौकिकवाक्यभिन्नवाक्यम् ( कु० टी० ५ ) ।
तच्च ज्ञानसाधनं धर्मब्रह्मप्रतिपादकं शास्त्रम् मन्त्रब्रह्माणभेदेन द्विविधं च ।
D
-
८०२