2023-02-20 00:56:51 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
पकत्वसंबन्धावच्छिन्न प्रतियोगिताक धननिष्ठहेतुत्वाद्यभावः कुलादौ प्रती-
यते । विप्राय गां न ददाति इत्यादौ निरूपकत्वसंबन्धावच्छिन्नप्रति-
योगिताक द्विजनिष्ठसंप्रदानत्वाभावो गवि प्रतीयते इति । एवमप्रेप्यूह्यम् ।
नव्यास्तु तत्र स्वीकुर्वन्ति । पूर्वोक्तस्थलेषु जन्यत्वसंप्रदेयत्वादिकमेव
तृतीयार्थः । तथा च स्वरूपसंबन्धावच्छिन्न प्रतियोगिको धनजन्यत्वाद्य-
भाव एव तत्र प्रतीयते ( ग० व्यु० का० १ ) इति ।
वृथाचेष्टा स्वकर्तव्यताप्रयोजकेच्छाविषये स्वरूपायोग्यकर्म (मू० म० १) ।
यथा वृथाचेष्टां न कुर्वीत इत्यादौ स्वर्गोदेशेन कृतं चैत्यवन्दनं वृथाचेष्टा ।
वृद्धि:-१ [ क ] कारणवतो द्रव्यस्यावयवोपचयः । अवर्धत गौरिति
( वात्स्या० २/२/५९ ) । [ ख ] अवयवोपचयः ( दि० १ ) ।
२ आकार ऐकार औकार एते त्रयो वर्णा वृद्धिः इति शाब्दिका वदन्ति ।
३ व्यवहारज्ञास्तु उत्तमर्णस्य स्वदत्तद्रव्यमपेक्ष्याघमर्णाकारितोधिकलाभो
( व्याज बडि सुद) वृद्धिः इत्याहुः । अत्रोक्तं नारदेन वृद्धिश्चतुर्विधा
प्रोक्ता पञ्चधान्यैः प्रकीर्तिता । षड्डिधान्यैः समाख्याता तत्त्वतस्तां निबो-
धत ॥ कायिका कालिका चैव चक्रवृद्धिरतोपरा । कारिता सशिखा
।
वृद्धिर्भोगलाभस्तथैव च ॥ (वीरमित्रो० अ० २ ऋणादान० पृ० २९४)
इति । वाधुषिके अशीतिभागो वृद्धिः स्यात् इति पुरुषार्थचिन्तामणिः
( पृ० २८ ) । ४ जननाशौचम् । वृद्धिर्नाम पुत्रजन्मादिनिमित्तोपल
क्षितः कालः ( पु० चि० पृ० ३७७) । ५ मिषजस्तु औषधिविशेषः ।
६ रोगविशेषश्च इत्याहुः ( भावप्र ० ) ।
वृश्चिकी - (विष्टिः ) असिते सर्पिणी ज्ञेया सिते विधिस्तु वृश्चिकी । सर्पि-
ण्यास्तु मुखं त्याज्यं वृश्चिक्याः पुच्छमेव च ॥ ( पुरु० पृ० ३१२) ।
वेग:-१ ( गुणः संस्कारः ) [ क ] वेगत्वजातिमान् ( त० दी० गु० )
(त० कौ० ) । लक्षणं च क्रियाजन्यत्वे सति क्रियाजनकत्वम् । अत्र
गुरुत्वादिवारणाय सत्यन्तं दलं दत्तम् । विभागादिवारणाय विशेष्यदलं
दत्तम् इति ज्ञेयम् । अथ वा मूर्तमात्रवृत्तितावच्छेदकसंस्कारविभाजको-
पाधिमत्त्वम् (वाक्य० गु० पृ० २१-२२) (भा०प० ) ( क्र० मा० ) ।
१०१ न्या० को०