2023-02-20 00:56:51 by ambuda-bot
This page has not been fully proofread.
व्यायकोशः ।
पृ० ८-९ ) इति । ● व्यवहारशास्त्रज्ञास्तु जीविका वृत्तिः इस्याडु: ।
वृत्तिहरणे निन्दा दृश्यते स्वदत्तां परदत्तां वा ब्रह्मवृत्तिं हरेत्तु यः । स
कृतघ्न इति ज्ञेयः फलं तच्छृणु भूमिप ॥ यावन्तो रेणवः सिक्ता विप्राणां
नेत्रबिन्दुभिः । ताषद्वर्षसहस्रं च घृतपाके स तिष्ठति ॥ ( ब्रह्मवै० प्र०
अ० ४९ ) इत्यादि । ११ स्थितिः । १२ विवरणं चेति काव्यज्ञा आहुः ।
१३ पञ्चमललघुकरणार्थं मानामानविरोधिनोन्नार्जनोपाया वृत्तयो भैक्यो-
सृष्टयथालब्धामिधा: ( सर्व० सं० पृ० १६४ नकु० ) इति ।
वृत्तिनियामकसंबन्धः - ( संबन्धः ) अविशिष्टव्यावृत्तविशिष्टधीनियामकः
संबन्ध: ( चि० खण्ड ० १ समवायवादः पृ० ६५२ ) । आधारत्वा-
धेयत्वान्यतरावच्छेदकः इति यावत् । यथा घटवद्भूतलम् इत्यादौ घट-
भूतलयोः संयोगो वृत्तिनियामकः । यथा वा गुणक्रियाजातिविशिष्टबुद्धौ
विषयीभूतः समवायो वृत्तिनियामकः ( चि० १ पृ० ६५१ ) । वृत्ति-
नियामकसंबन्धाश्च संयोगसमवाय स्वरूपकालिक दै शिकविशेषणतादयः ।
एतद्व्यतिरिक्तास्तु वृत्त्यनियामका बोध्या: । ते च गगनादिसंयोगाङ्गुलिद्व-
यसंयोग कुण्डबदर संयोग विषयत्व विषयित्वानुयोगित्व प्रतियोगित्व निरूपकत्व-
निरूप्यत्वतादात्म्यादयोनन्ता एव । अत्रेदं बोध्यम् । प्राचीनाः वृत्त्य-
नियामक संबन्धस्याप्यभावप्रतियोगितावच्छेदकत्वं स्वीकुर्वन्ति । तथा हि ।
धनेन कुलमित्यादौ कुले धनस्य हेतुत्वम् । विप्राय गां ददातीत्यादौ गवि
द्विजस्य संप्रदानत्वम् । वृक्षात्पर्णे पततीत्यादौ पतने वृक्षस्यापादानध्वम् ।
वह्निमान् घूमादित्यादौ घूमेन वह्निरित्यादौ वा वहौ धूमस्य ज्ञापकस्बम् ।
चैत्रस्य घनमित्यादौ धने चैत्रस्य स्वामित्वम् । भूतले घट इत्यादौ घटे
भूतलस्याधिकरणत्वम् । इत्यादिप्रतीत्या निरूपकत्वस्यापि संबन्धस्य कचि-
द्वृत्तिनियामकत्वमावश्यकम् । न हि कुलादिनिरूपितं हेतुस्वादिकमेव
धनादिनिष्ठत्वेन तासु भासते । धनादिनिष्ठ हेतुत्वादेः संबन्धविशेषेण
निरूपकत्वादिना कुलादिवृत्तिताया अप्यनुभावकत्वात् ( श० प्र०
(
श्लो० ९३ पृ० १२१ ) । तथा च सति ननूसमभिष्याहारस्थले न
धनेन कुलमित्यादौ प्रतियोग्यभावान्वयौ तुल्ययोगक्षेमौ इति न्यायेन निरू-