This page has not been fully proofread.

७९८
 
न्यायकोशः ।
 
योगात् प्रस्तरे प्रयुक्तो यजमानकार्यकारणत्वेन प्रस्तरमुपस्थापयति । यथा
वा सिंहो माणवकः इत्यादौ सिंहशब्द: स्वार्थनिष्ठचापल्यादिगुणयोगा-
न्माणवकं तेन रूपेणोपस्थापयति । तथा च तन्मते शक्तिलक्षणाभ्यामति-
रिक्तैव गौणी वृत्तिः ( म० प्र० ४ पृ० ४१ ) । शक्यस्य साक्षात्संबन्ध
एष लक्षणा न तु परंपरासंबन्धरूपा । तेन गङ्गायां घोषः इत्यत्र तीरे
शक्यस्य प्रवाहस्येव अग्निर्माणवकः इत्यादौ माणवके शक्यस्याग्नेः साक्षा-
संबन्धो न संभवति इति सादृश्यात्मकस्य परंपरासंबन्धस्यातिरिक्तवृत्ति-
त्वमङ्गीकर्तव्यम् इति मीमांसकानामभिप्रायः । नैयायिकास्तु तन सहन्ते ।
शक्यस्य साक्षात्संबन्धस्येव परंपरासंबन्धस्यापि लक्षणात्वस्वीकारे क्षति -
विरहाद्गौण्या न वृत्त्यन्तरत्वम् । तथा च अग्निर्माणवकः इत्यादौ लक्ष्य-
माणगुणसंबन्धरूंपा लक्षणैव (वेदा०प० ) । तदर्थश्च लक्ष्यमाणो
यो गुणः शुचित्वादिः तत्संबन्धरूपा इति । तथा च अग्निर्माणवकः
इत्यादौ शक्यस्यानेः स्वनिष्ठ शुचित्ववत्त्व संबन्ध एव लक्षणा ( नील० ४
पृ० ३० ) । वाक्यार्थबोधने तात्पर्याख्यां वृत्तिमङ्गीचक्रुरभिहितान्वयवा-
दिनः तार्किकाः । तेषामयमाशयः । अभिधाया एकैकपदार्थबोधेन
विरमात् वाक्यार्थरूपस्य पदार्थान्वयस्य बोधिका तात्पर्याख्या वृत्तिरङ्गी-
कर्तव्या । तदुक्तम् तात्पर्याख्यां वृत्तिमाडुः पदार्थान्वयबोधने ( सा० द०
उ० २ श्लो० २०) इति । २ संनिकर्ष: । ३ ज्ञानम् (वात्स्या ० १ । १ । ३ )
४ आधेयत्वम् । यथा भूतलवृत्तिर्घटः इत्यादौ घटे भूतलाधेयत्वम् ।
यथा वा सिद्धान्तसिद्धव्याप्तिस्वरूपे निरूपणीये हेतुमति निष्ठा वृत्तिर्यस्य
स तथा विरहः अभावः इत्यादौ वृत्तिशब्दस्यार्थ आधेयत्वम् (मु० २
पृ० १४० ) । ५ आधेयतावान् । यथा तत्र वृत्तिर्यः अभावः इत्यादौ ।
यथा वा सपक्षस्तत्र वृत्तित्वज्ञानादनुमितिर्भवेत् (भा०प० २ श्लो० ७१)
इत्यादौ वृत्तिशब्दस्यार्थ आधेयतावान् । ६ वैयाकरणास्तु विग्रहवाक्यार्था-
भिधानम् परार्थाभिधानं वा वृत्तिः ( महाभा० ) । यथा राज्ञः पुरुष
इत्यत्र राजपुरुषः इति समासो वृत्तिः । ताश्च वृत्तयः कृत्तद्वितसमासैक-
शेषसनाद्यन्तधातवः पञ्च इत्यांदुः । परार्थाभिधानमित्यस्यार्थस्तु परस्य
शब्दस्योपसर्जनार्थकस्य यत्र शब्दान्तरेण प्रधानार्थकपदेनार्थाभिधानं
 
-