This page has not been fully proofread.

न्यायकोशः ।
 
७१७
 
ख० ४५० ४०-४१ ) । शाब्दिकमते वृत्या संस्कारो जन्यते ।
संस्कार कल्पिका च वृत्तिस्मृतिः शाब्दबुद्धिरेव वा इति ज्ञेयम् ( ३०
म० स्फोट० पृ० २ ) 1 [ ख ] शक्तिलक्षणान्यतरात्मकः संबन्धः
(मु० ४ ) ( दि० ४ पृ० १७४ ) ( न्या० बो० ) । यथा घटपदस्य
कम्बुप्रीवादिमत्यर्थे वृत्तिः ( शक्तिः ) । [ ग ] शाब्दिकास्तु शाब्दबोध-
प्रयोजकस्तत्तदर्थनिरूपितः शब्दधर्मः इत्याहुः ( ल० म० स्फोट●
पृ० २ ) । न्यायमते वृत्तिर्द्विविधा संकेतः लक्षणा चेति ( ग० शक्ति ० )
( तर्का० ४ पृ० १० ) । प्रकारान्तरेण वृत्तिर्द्विविधा मुख्या गौणी च ।
तत्राद्या शब्दशक्तिः । सैव संकेत इत्युच्यते । द्वितीया तु लक्षणा इति ।
प्राचीनशाब्दिकमते योगादिभेदात् षड़िधा शब्दवृत्तिः । वृत्तिमेदाञ्च
शब्दभेदः । तदुक्तम् यौगिको योगरूढश्च शब्दः स्यादौपचारिकः ।
मुख्यो लाक्षणिको गौणः शब्दः षोढा निगद्यते ॥ ( म०प्र० ४
पृ० ४१ - ४२ ) इति । लक्षितलक्षणापि वृत्त्यन्तरम् इति प्राञ्चो नैया-
यिका आहुः । सा च लक्षितलक्षणा जहल्लक्षणैव नातिरिक्ता वृत्तिः इति
नव्या आहुः । व्यञ्जनाख्यं तृतीयमपि वृत्त्यन्तरमैच्छन्नालंकारिकाः
शाब्दिकाश्च । तदुक्तम् वाच्योर्थोभिधया बोध्यो लक्ष्यो लक्षणया मतः ।
व्यङ्ग्यो व्यञ्जनया ताः स्युस्तिस्रः शब्दस्य वृत्तयः ॥ ( सा० ८० परि० २
श्लो० ११) इति । तत्र व्यङ्ग्योर्थो यथा-गच्छ गच्छसि चेत्कान्त पन्थानः
सन्तु ते शुभाः । ममापि जन्म तत्रैव भूयाद्यत्र गतो भवान् ॥ इत्यादौ
व्यञ्जनया वृत्या प्रियाया मरणम् । अत्र हे प्रिय तव गमनोत्तरं मे प्राणवि-
योगो भविष्यति अतो न गन्तव्यम् इत्यर्थो व्यज्यते । नैयायिकास्तु गच्छसि
इस्युक्तेः मा गाः इति तात्पर्यमुन्नीयते संभाव्यते वा न तु मा गाः
इति निर्णीयते इति कृतं वृश्यन्तरेण इत्यादुः (न्या० म० ४ पृ० १७) ।
अत्र अधिकं तु व्यञ्जनाशब्दव्याख्याने दृश्यम् । गौणीं वृत्त्यन्तरमैच्छ-
न्मीमांसकाः । यथा अग्निर्माणवकः इत्यादौ माणवकेमिसादृश्यबोधा-
द्रौणी वृत्यन्तरमेव (सि० च० ४ पृ० ३१) । यथा वा यज-
मानः प्रस्तरः इत्यादौ यजमानशब्दः स्वार्थनिष्ठयागसाधकत्वरूपगुण-