This page has not been fully proofread.

न्यायकोशः ।
 
विहिताया द्विरुक्तेर्नित्यतया यत्पदे द्विरुक्तिसत्त्वेपि तथा तत्पदे द्विरुक्तेः
साधुत्वेपि च न्याये प्रयुज्यमानेधिकस्यानपेक्षितत्वेन तत्पदे द्विरुक्ते-
नवश्यकत्वम् ( ग० २ हेतु० पृ० ७४ ) इति । अत्र च वीप्सया
महानसं घूमवद्वद्दिमञ्च महानसान्यद्धूमवद्वह्निमच इति वाक्यार्थचतुष्टय-
विषयकबोधः घूमवान्धूमव्यापकवह्निमान् इति विशिष्टैकार्थबोधो वा जायते
इति बोध्यम् (ग० २ अव० न्यायलक्ष० पृ० ६ ) । अत्र वीप्साप्रयो-
जनं च कचिद्यभिचारधीवारणमिति प्राञ्च आहुः । उद्देश्यमानसव्याप्ति-
ज्ञानविरोधिव्यभिचारधीवारणम् इत्यर्थः । तथा चायं भावः । यावद्वेत्व-
धिकरणे साध्यवत्त्वनिश्चये तेन व्यभिचारशङ्का निवर्तनेन साधनाधिकरणे
साध्याभाववत्त्वरूपव्यभिचारग्रहप्रतिबन्धो भवति । [ग] अनवयवेन
द्रव्याणामभिधानमेव वीप्सार्थः इति महाभाष्यकार: पतञ्जलिराह ।
 

 
वीरुत् - छिन्ना अपि या विविधं प्ररोहन्ति ता लताः गुडूचीप्रभृतयः ।
वृत्तिः-१ [ क ] शाब्दबोधहेतुपदार्थोपस्थित्यनुकूल: पदपदार्थयोः संबन्धः
(चि० ४ ) (मु० ४ पृ० १७४ ) । सा च पदवृत्तिः इत्युच्यते इति
विज्ञेयम् ( ग० शक्ति० पृ० २ ) । अत्र वृत्तित्वं च शक्तिलक्षणान्यतर-
त्वम् ( त० प्र० ख० ४ पृ० ३४ ) । परे तु शाब्दबोधजनकपद-
पदार्थसंबन्धत्वम् इत्याहुः ( ल० म० स्फोट० पृ० १३ ) । अत्रेदं
बोध्यम् । वृत्तिस्तात्पर्यनिर्वाहिका भवति । तात्पर्ये चात्र त्रिविधम् औत्स-
र्गिकम् आपवादिकम् नियतं चेति । तत्राद्यम् शक्तिं कल्पयति । यथा
घटादिपदप्रयोक्तरुत्सर्गतो घटादावेव तात्पर्यमस्ति इति तस्य तत्र शक्तिः ।
द्वितीयम् लक्षणां कल्पयति । यथा गङ्गापदस्य मुख्यार्थान्वयबाधे तीरादौ
तात्पर्यग्रहो भवति इति तस्य तत्र लक्षणा । तृतीयम् निरूढिलक्षणां
कल्पयति । निरूढलाक्षणिक स्यानुपपत्तिज्ञानमन्तरापि लक्ष्ये तात्पर्यग्रह-
नियमात्तत्र निरूढिलक्षणा । यथा कटं करोतीत्यादौ कटशब्दस्य कटा-
वयवे । कटस्य सिद्धत्वे करणं न संभवति असिद्धे च कर्मत्वं न इति
अनुपपत्तिज्ञानविरहेपि कटावयवान् कटवत्तया करोति इति ततो बोधात् ।
अथ वा वह्निमान्धूमादित्यादौ हेतुपदे तज्ज्ञाने निरूढिलक्षणा ( म० प्र०