2023-02-20 00:56:49 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
७९५
विसर्गः – १ त्यागः । २ शाब्दिकास्तु विसर्जनीयाख्यो वर्णविशेष इत्याहुः ।
३ सूर्यस्यायनविशेषः इति ज्योतिर्विद आहुः । ४ प्रलयः । ५ विशेष-
सृष्टिश्चेति पौराणिका आहुः ।
विस्तरः – पञ्चानां पदार्थानां प्रमाणतः पञ्चाभिधानम् ( सर्व० सं० पृ०
१७१ नकु० ) ।
विहितत्वम् - [ क ] इष्टसाधनत्वेन
वेदबोधितत्वम् ( वाक्य० गु०
पृ० २१ ) । यथा स्वर्गकामो यजेत इत्यादौ यज्ञादिकर्मणो विहितत्वम् ।
यथा वा नैयायिकानां मते अहरहः संध्यामुपासीत इत्यादौ संध्योपास-
नाया विहितत्वम् । एतन्मते संध्योपासनाया दुरित निवृत्त्यादि फलमङ्गी-
कृतम् इति विहितत्वं संगच्छते । अत्र वेद इत्युपलक्षणम् । तेन वेदमूलक-
स्मृत्याद्यपि संगृह्यते । [ ख ] बलवद निष्टाननुबन्धित्वेन वेदबोधितत्वम्
इति मीमांसका आहुः ( मू० म० १ ) । एतन्मते नित्यकर्मणां फला-
भावेनेष्टासंभवेपि बलवद निष्टाजनकत्वरूपलक्षणदलस्य समन्वयो भवति ।
शिष्टं तु विधिशब्दव्याख्याने द्रष्टव्यम् । [ ग] धर्मापादकत्वम् इति
केचिदाहुः ।
-
वीतम् – १ अनुमानविशेषः । अन्वयमुखेन प्रवर्तमानमनुमानम् इत्यर्थः
( सांख्य ० कौ० कारि० ५ पृ० १० ) । २ युद्धासमर्थ सैन्यम् इति
नीतिशास्त्रज्ञा आहुः । ३ शान्तम् ४ गतं चेति काव्यज्ञा आहुः ।
वीप्सा -[क] सकलधर्मिप्रत्यायनेच्छा । यथा - कल्याणानां त्वमसि
महसां भाजनं विश्वमूर्ते धुर्यो लक्ष्मीमथ मयि भृशं घेहि देव प्रसीद ।
यद्यत्पापं प्रतिजहि जगन्नाथ नम्रस्य तन्मे भद्रं भद्रं वितर भगवन्भूयसे
मङ्गलाय ॥ ( मालतीमाध० ११३) इत्यादौ यत्पदे वीप्सा ( ग० २
अवय० हेतु० पृ० ७४ ) (चि० २ अव० पृ० ८१ ) । यथा वा-
यां यां प्रियः प्रैक्षत कातराक्षी सा सा हिया नम्रमुखी बभूव ( माघ ०
स० ३ श्लो० १६) इत्यादौ यत्तत्पदयोर्वीप्सा । [ ख ] व्याप्तेर्व्यापक-
त्वस्य वा बोधनेच्छा । यथा यो यो धूमवान्स वह्निमान् इत्यत्र यत्पदे
वीप्सा । अत्रेदं बोध्यम् । नित्यवीप्सयोः ( पाणि० ८।१।४) इत्यनेन