2023-02-20 00:56:49 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
ज्ञानजनकत्वसंबन्धेन विषयोस्त्यस्य इति विषयि इत्यनुसंधेयम् । ३ विषया-
सक्तः इत्यालंकारिका आहुः । ४ राजा विषयी इति काव्यज्ञा वदन्ति ।
विषवेगः- धातोर्धात्वन्तरप्राप्तिर्विषवेग इति स्मृतः ( याज्ञ० स्मृ० टी०
मिता० २/१११) ।
०
विषादः -[ क ] इष्टनाशकृतो मनोभङ्गः ( रघु० टी० मलि० ) । यथा
विषादलुप्तप्रतिपत्तिविस्मितम् ( रघु० ३ । ४० ) इत्यादौ । तदुक्तम्
विषादश्वेतसो भङ्ग उपायाभावनाशयोः ( रघु० स० ३ श्लो० ४०
टी० ) इति । [ख ] वेदान्तिनस्तु मोहनि मित्ता च्छोकाद्यन्मनो दौर्बल्यम्
यस्मिन् सति सर्वव्यापारोपरमो भवति स विषाद इत्याहुः ( गीता अ० १
लो० २८ भाष्ये राघवेन्द्र ) ।
•
विष्टम्भः–१ [ क ] प्रतिबन्धः । [ ख ] कचित् उत्तरदेशगतिप्रतिबन्धः
( गौ० वृ० ४।२।२० ) । यथा अव्यूहाविष्टम्भविभुत्वानि चाकाश-
धर्माः ( गौ० ४।२।२० ) इत्यादौ विष्टम्भः । २ रोगविशेषः इति
भिषज आहुः ।
विष्टुतिः - तिसृभ्यो हिंकरोति स प्रथमया तिसृभ्यो हिंकरोति स मध्यमया
तिसृभ्यो हिंकरोति स उत्तमया इति सूक्तत्रयपठितानां नवानामृचां गानं
त्रिभिः पर्यायैः कर्तव्यम् । तत्र प्रथमे पर्याये त्रिषु सूक्तेष्वाद्यास्तित्र ऋचः ।
द्वितीये पर्याये मध्यमाः । तृतीये पर्याये चोत्तमाः । सेयं यथोक्तप्रकारो-
पेता गीतिस्त्रिवृत्स्तोमस्य विष्टुतिः स्तुतिप्रकारविशेष: ( जै० न्या० अ० १
पा० ४ अधि० ३) ।
विष्णु: - द्वादशी ( कामशब्दे दृश्यम् ) ।
-
विष्णुशङ्खलः - द्वादशी श्रवणस्पृष्टा स्पृशेदेकादशीं यदा । स एव वैष्णवो
योगो विष्णुशृङ्खलसंज्ञितः ॥ (पु० चि० पृ० २१६) ।
विसंवादः - १ समयविरुद्धवादः । २ अन्यथास्थितस्य वस्तुनोन्यथा-
कथनम् । ३ प्रमाणानुसरणाभावः इति केचिदाहु: ( वाच० ) ।
४ विप्रलम्भः ( वञ्चनम् ) इति काव्यज्ञा वदन्ति ।