This page has not been fully proofread.

न्यायकोशः ।
 
संबन्धविशेषः किंतु सप्तपदार्थातिरिक्तैव इत्येकदेशिन आहुः । भट्टास्तु
ज्ञातो घटः इति प्रतीतिसिद्धा ज्ञानजन्या विषयनिष्ठा प्राकव्यापरनाम्नी
पदार्थे ज्ञातता सैव च विषयता ज्ञानविषययोः संबन्धरूपा इत्याहुः
( १० मा० ) ( न्या० म० ११४ ) । विषयता ज्ञानादिवत् सविषयका
प्रसिद्धविषयतातोन्या इत्यतिरिक्तविषयतावाद्याह ( दीवि० हेत्वाभा०
बाघ० पृ० २१८) । विषयो हि द्विविधः अपरोक्षः परोक्षश्चेति ।
तत्राद्यः प्रत्यक्षस्य विषयः । द्वितीयस्त्वनुमानस्य विषयः शब्दस्य विषयश्च
( प्र० च० पृ० ४१ ) इति । २ प्रतीयमानभोगसाधनम् । यथा अनित्य-
पृथिवीजलतेजोवायुभागो द्व्यणुकादिर्विषयः । विषयता चात्र लौकिक-
साक्षात्कारविषयकार्यद्रव्यत्वम् । वस्तुतस्तु लौकिकसाक्षात्कारविषयत्वमेव
द्रव्यगुण कर्मसामान्याभावसाधारणं विषयत्वम् ( वै० उ० ४/२/१
पृ० २०९) । अथ वा साक्षात्परंपरया वोपभोगसाधनत्वे सति जन्य-
द्रव्यत्वम् (वै० वि० ४।२।१ ) । अत्रायं नियमः यच्च कार्ये यददृष्टा-
धीनम् तत् तदुपभोगं साक्षात्परंपरया वा जनयत्येवेति (मु० १ ) ।
यद्वा शरीरेन्द्रियभिन्नत्वे सति भोगसाधनत्वम् ( वाक्य० १ पृ० ३ ) ।
ज्ञायमानत्वे सति आत्मनो भोगसाधनत्वम् ( त० कौ० ) इति वा ।
३ ग्रन्थस्य प्रतिपाद्योर्थो विषयः ( म०प्र० ४ ) । ४ पौराणिकास्तु
इन्द्रियजन्यज्ञानविषयः । यथा शब्दस्पर्शरूपरसगन्धा विषयाः इत्याहुः ।
अत्रार्थे विग्रहः विषण्वन्ति स्वात्मकतया विषयिणं निरूपयन्ति संबध्नन्ति
वा विषयाः इति । अत्रोच्यते विषयाशामहापाशायो विमुक्तः सुदुस्त्य-
जात् । स एव कल्पते मुत्त्यै नान्यः षट्शास्त्रवेद्यपि ॥ (विवेकचूडा-
मणौ ) इति । ५ नियामकः इति भट्ट आह । अत्रार्थे व्युत्पत्ति प्रदर्श-
यति विशब्दो हि विशेषार्थ: सिनोतिर्बन्धनार्थकः । विशेषेण सिनोतीति
विषयोतो नियामकः ॥ ( भट्टका० ) इति । ६ आलंकारिकास्तु आरो-
पाश्रयः । यथा गौर्वाहीक इत्यादौ वाहीको विषयः इत्याहुः ( काव्यप्र०
उ० २ ) । ७ मीमांसकाश्च [क] अधिकरणावयवविशेषो विचारार्ह-
वाक्यम् । [ ख ] आपाततः प्रतीतः संदिग्धोर्थो विषय: ( जै० न्या०
अ० १ पा० १ अधि० १ ) इत्याहु: । अत्रोच्यते विषयो विशयश्चैव
 
७९२