2023-02-20 00:56:48 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
विशेषविधिः-- सामान्य विशेषयोर्मध्ये विशेषे विधानम् । यथा ब्राह्मणेभ्यो
दघि दीयताम् कौण्डिन्याय तक्रम् इत्यत्र कौण्डिन्यस्य ब्राह्मणविशेषत्वेन
तद्विषये दधिदानापवादेन तऋदानविधि विशेष विधिर्भवति । अत्रोच्यते
अल्प: स्याद्विषयो यस्य स विशेषविधिर्मतः ( व्या० का ० ) इति ।
विशेषसमः - ( जाति: ) धर्मेणैकेन केषांचिदविशेषप्रसञ्जनम् । साधन-
प्रतिबन्धाय स विशेषसमो मतः ॥ ( ता० र० परि० २ श्लो० १२१ ) ।
अत्रापेक्षणीयोदाहरणादिकं तु अविशेषसमः इति शब्दव्याख्याने ( पृ०
९५) यत् प्रदर्शितम् तदेवात्र प्राह्यम् । अत्र धर्मेणैकेनेत्युक्त श्लोके
अविशेषसमः इत्यपि पाठः ।
"
-
विशेषितम् - १ विशिष्टम् । यथा याप्यते ग्राममजा इत्यादौ स्वनिर्वाह्य-
कर्तृतानिरूपकत्वसंबन्धेन व्यापारविशेषितधात्वर्थः कर्तृत्वेन्वेति ( ग०
व्यु० का० २ पृ० ४८) इत्यादौ विशेषितशब्दस्यार्थो विशिष्टं भवति ।
२ भेदितम् । ३ विशेषयुक्तम् ।
विशेष्यः - विशेष्यतावान् । यथा भूतले घटो नास्ति इति प्रत्यक्षे घटा-
भावो विशेष्यः । अत्र विशेष्यता च स्वरूपसंबन्धावच्छिन्नाधारानेयभावः
संनिकर्षविशेष: ( नील० १ पृ० १८ ) । स्वरूपसंबन्धावच्छिन्नाधेयता-
संसर्गावच्छिन्न प्रकारता निरूपितविशेष्यता इति तु वयं ब्रूमः । यथा वा
नीलो घटः इत्याकारकशाब्दबोधे घटो विशेष्यः । अत्र इयं विशेष्यता
केनचिदपि संबन्धेनावच्छिन्ना न भवति इति वदन्ति । विशेष्यता चात्र
तत्तज्ज्ञानीयो यत्किंचित्प्रकारतानिरूपितः संसर्गताभिन्नो विषयताविशेषः
इति केचित् । भासमान वैशिष्ट्यानुयोगित्वमिति संप्रदाय: ( कु० ४) ।
अत्र वैशिष्ट्यं च संबन्ध विशेषः । अत्रेदमवधेयम् । मध्यवर्तिविषयतयो-
रैक्यमेव इति जगदीशचक्रवर्तिनः पक्षः । मध्यवर्तिविषयतयोर्भेद एवेति
गदाघरभट्टाचार्याणां पक्षः । यथा हि दण्डवान् पुरुष इत्यत्र पुरुषे
दण्डः प्रकारः दण्डे च दण्डत्वं प्रकारः इति स्थितिः । एवं च दण्डस्व-
निष्ठप्रकारता निरूपिता विशेष्यता पुरुषनिष्ठविशेष्यतानिरूपिता प्रकारता
च एतद्दूयं दण्डे तिष्ठति । तथा च मध्यवर्तिनोस्तयोर्द्वयोर्विषयतयोरक्यम्