2023-02-20 00:56:48 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
७८९
वर्तकम् विशेषणम् । यथा पुरुषादौ वर्तमानकालावच्छेदेन विद्यमानो
दण्डादिर्विशेषणम् ( ग० व्यु० का० ३ पृ० ९२) । यथा वा यदा
देवदत्तगृहे काकवत्ता तदा काको विशेषणम् (वै० उ० ७ १२१८ ) ।
अयं भावः । यत्राश्रये यत्कालीना वृत्तिः प्रत्याय्या तत्कालीनतदधिकरण-
वृत्तिर्विशेषणम् । अन्यदुपलक्षणम् । एवं च काककालीन गृहव्यावृत्तिपरे
प्रयोगे काको विशेषणमेव । सामान्यतो गृह विशेषव्यावृत्तिपरे प्रयोगे तु
उपलक्षणमेव सः इति निष्कर्षः ( प० च० पृ० ५० ) । विशेषणं
त्रिविधम् व्यावर्तकम् विधेयम् हेतुगर्भ चेति । तत्राद्यम् नीलो घट
इत्यादौ नीलः । द्वितीयं यथा पर्वतो वह्निमानस्ति इत्यादौ वह्निर्विधेयः ।
यथा वा न्यक्कारो ह्ययमेव मे यदरयः ( हनुमन्नाट ० ) इत्यादौ न्यक्कारो
विधेयः । तृतीयं च स कीचकैर्मारुतपूर्णरन्धैः कुजद्भिरापादितवंशकृत्यम्
(रघु० २।१२) इत्यादौ मारुतपूर्णरन्ध्रत्वं हेतुगर्भे विशेषणम् । यथा वा
सुरापः पतति इत्यादौ सुरापानं हेतुगर्भ विशेषणम् ।
-
विशेषणविशेष्यभावः – १ ( इन्द्रियार्थसंनिकर्षः ) स्वरूपसंबन्धावच्छिन्ना-
धाराधेयभावः (नील० १ पृ० १८) । यथा घटाभाववद्भुतलम्
इत्याद्यभावप्रत्यक्षे कारणभूतो विशेषण विशेष्यभावः संनिकर्षः । अत्रा-
धिकं तु इन्द्रियार्थसंनिकर्षशब्दव्याख्यानावसरे संपादितम् तत्र दृश्यम् ।
२ विषयताविशेषः । यथा दण्डी पुरुषः इति शाब्दबोधे दण्डपुरुषयो-
विशेषणविशेष्यभावः । अत्र विग्रह: विशेषणं च विशेष्यं च विशेषण-
विशेष्ये । तयोर्भावः इति । निरूप्यनिरूपकभावापनं विशेषणत्वं विशे-
ष्यत्वं चेत्यर्थः ।
विशेषणासिद्धः - ( हेत्वाभासः ) यो हेतु: स्वघटकविशेषणविशिष्टः सन्पक्षे
न तिष्ठति न सिद्ध्यति च सः । यथा शब्दो नित्यः द्रव्यत्वे सत्यस्पर्श-
त्वात् इत्यत्र हेतुर्विशेषणासिद्धः । अत्र द्रव्यत्व विशिष्ट स्पर्शत्वं हेतुः ।
स च शब्दे नास्त्येव । अस्पर्शत्वरूपविशेष्यस्य शब्दे सत्त्वेपि द्रव्यत्व-
रूपविशेषणस्य बाधात् इति बोध्यम् । अत्र विशेषणेनासिद्धः इति विग्रहः ।
सच विशेषणासिद्ध स्वरूपासिद्धप्रभेदः (त० भा० पृ० ४६) ।