This page has not been fully proofread.

न्यायकोशः ।
 
·
 
संबन्ध रूपः संनिकर्षविशेषः ( नील ० १ पृ० १९) ( मू० म० १ ) ।
इयमभावप्रत्यक्षे हेतुर्भवति इति ध्येयम् । यथा घटाभाववद्भूतलम्
इति चाक्षुषप्रत्यक्षे हेतुभूतो भूतलांशे घटाभावस्य विशेषणतारूपः संनि-
कर्षः । अत्र अभावस्य स्वोपरक्तबुद्धिजनकत्वं यत्स्वरूपम् तदेव विशेषण-
त्वम् इति ज्ञेयम् ( त०] भा० १०२०) । सा च विशेषणता पुनः
द्विविधा इन्द्रियविशेषणता इन्द्रियसंनिकृष्टविशेषणता च । आद्यया शब्दा-
भावो गृह्यते । अन्त्यया भूतलादौ घटाभावो गृह्यते ( न्या० म० १ ) । स्व-
रूपसंबन्धावच्छिन्नाधेयतारूपा वेयं विशेषणता (नील० १५० १८)
यथा नैयायिकमते विशेषणतया समवायस्य प्रत्यक्षम् इत्यादौ विशेषणता ।
वैशेषिकमते तु समवायो न प्रत्यक्ष इत्यन्यत् । द्वितीया विशेषणता
यथा नीलो घट इत्यादौ नीलत्वे विशेषणता । इयं विशेषणता तु प्रकार-
ताख्यो विषयताविशेषः । अथ वा तत्पदजन्यबोधविषयत्वेन शक्तिविषय-
त्वम् ( दि० ४ ) । यथा दण्डवान् पुरुषोस्तीत्यादौ दण्डस्य विशेषणता ।
अत्रेदमधिकं विज्ञेयम् । विशेषणतावच्छेदकं तु विशेषणे यद्विशेषणम् तत्
(मु० ) । यथा दण्डवान्पुरुष इत्यत्र दण्डत्वं विशेषणतावच्छेदकम् इति ।
अत्र व्युत्पत्तिः विशिष्यते भिद्यते अनेन (ल्युट् ) इति विशेषणम् भेदकम् ।
व्यावर्तकम् प्रकारो वा विशेषणं भवति । तत्र प्रत्याय्यव्यावृत्त्यधिकरणता-
वच्छेदकं व्यावर्तकम् । समुदायार्थस्तु यद्ध्यावृत्त्यधिकरणतावच्छेदकं तदेव
तत्र विशेषणम् इति । व्यावृत्तिरन्योन्याभावः ( मु० म० १ पृ० ८३२ ) ।
दण्डी पुरुषः इति ज्ञानानन्तरं दण्डवत्यदण्डन्यावृत्तिरवगम्यते इति
प्रत्याय्यव्यावृस्यधिकरणता पुरुषस्य दण्डेनावच्छिद्यते इति दण्डो विशे-
षणम् । तदादुराचार्याः सदसद्वा समानाधिकरणं व्यवच्छेदकं विशेषणम्
(चि० १ पृ०८३४) इति । अथ वा विवक्षितान्वयप्रतियोगितावच्छेदकम् ।
यथा दण्डिनमानयेत्यादौ दण्डो विशेषणम् । यदन्विततया ज्ञात एव
विशेष्ये तारपर्यविषयेतरान्वयधीः तद्व्यवच्छेदकम् । विशेष्यान्वयिना
यस्यावश्यमन्वयः तदवच्छेदकम् । यद्ध्यावर्तकं विशेष्यान्वयिनान्वीयते
तत् । तात्पर्य विषयान्वयप्रतियोगी धर्मः । उद्देश्यान्वयप्रतियोगी धर्मो वा
(चि० १ पृ० ८३४-८३८) । अत्रेदं बोध्यम् । विद्यमानं सब्या-
७८८