This page has not been fully proofread.

कोशः
 
रेणानुमानं द्विविधम् । तथा चोक्तम् दृष्टं सामान्यतो दृष्टमिति चास्य
विधाद्वयम् । पूर्व प्रत्यक्षयोग्यार्थे तदयोग्यार्थमुतरम् ॥ इति ( ता० २०
लो० २१ ) ( प्रशस्त ० २) । मायावादिनस्तु - अनुमानं न त्रिविधं
किंतु अन्वयिरूपमेकमेवेत्याहु: ( वेदान्तप० पृ० ३४ ) । २ किङ्गम्
(चि० २)
 
-
 
अनुमितिः – ( अनुभवः ) [ क ] व्याप्तिविशिष्टपक्षधर्मताज्ञान जन्यं ज्ञानम्
( चि० २) । अत्र व्यातिविशिष्ट पक्षधर्मताज्ञानेन जन्यमिति विग्रहः ।
तदर्थश्च व्याप्तिविशिष्टपक्षधर्मत्वविषयताशालिनिश्चयत्वावच्छिनकारणता-
निरूपितकार्यत्वे सति ज्ञानम् ( वाक्य० ) । व्याप्तिनिष्ठ प्रकारतानिरूपिता
या हेतुनिष्ठा प्रकारता तनिरूपिता या पक्षतावच्छेदकावच्छिन्नविशेष्यता
तच्छा लिज्ञान जन्यं ज्ञानमिति निर्गलितोर्यः ( दि० २११३८ ) । व्याप्तिवि
शिष्टपक्षधर्मताज्ञानं च परामर्शशब्दव्याख्यानावसरे निरूपयिष्यामः ।
अत्रेदं बोध्यम् - ज्ञानलक्षणसंनिकर्षसत्त्रेपि तस्य दुर्बलत्वेन परामर्शा-
नन्तरं पर्वते वह्नयनुमितिरेव न तु प्रत्यक्षमिति ( म०प्र० ७३ ) ।
अनुमितेर्लक्षणं च अनुमितित्वमेव । तच्च अनुमिनोमि इत्यनुभव-
सिद्धो जातिविशेषः । जन्यशब्दधीजन्यत्वव्यमिचारिणी या जन्यज्ञान-
जन्पत्वाव्यमिचारिणी च जाति: ( अनुमितित्वं ) तद्वदनुभवत्वम् ( न्या०
म० २११४) (त० प्र०) । पदप्रयोजनादिकं तु तत एव ज्ञेयम् । [ख]
परामर्शजन्यं ज्ञानम् ( त० सं० ) । [ ग ] लिङ्गशामजन्यं लि-
विज्ञानम् (त० कौ० ) । [ घ ] व्याप्तिज्ञानकरणकं ज्ञानम्
( मु० ) । यथा पर्वते घूमेन वहिसाधने पर्वते घूमज्ञानानन्तरं पर्वतो
बडिमान् इति ज्ञानम् (त० कौ० ) ( त० सं० ) । अनुमितिर्वेधा ।
पक्षतावच्छेदकसाभ्ययोः सामानाधिकरण्यमात्रावगाहिनी तयोरवच्छेद्याव-
च्छेदकमावावगाहिनी च (ग० पक्ष० ) । अत्रेदमवधेयम् । पर्वतो
वहिमान् इत्यायनुमितौ यदा वहिपर्वतत्वयोः सामानाधिकरण्यमात्रं विव-
क्षितं तदा सानुमिति: सामानाधिकरण्य मात्रावगाहिनी । यदा तु सयो-
व्र्व्याप्यव्यापकभावो विवक्षितस्तदाबच्छेयावच्छेदकमावावगाहिनी भव-