This page has not been fully proofread.

न्यायकोशः ।
 
लक्षणं तु सामान्यशून्यत्वे सति सामान्यभिन्नत्वे च सति समवेतत्वम् । यद्वा
नित्यसमवेतवृत्तिजन्यसमवेत्तावृत्ति पदार्थविभाजकोपाधिमस्त्वम् (त० व०) ।
एकमात्रसमवेतत्वे सति सामान्यशून्यत्वं वा ( प० मा० ) । स्वतो
व्यावृत्तत्वं वा ( वाक्य० ) ( त० प्र० १) । स्वतो व्यावर्तकत्वं वा ।
अत्र व्यावर्तकत्वं नाम व्यावृत्तिजनकत्वम् । व्यावृत्तिश्चेतरभेदः तज्ज्ञानं
बा ( सि० च० १ पृ० ३) । स्वतो व्यावर्तकत्वं च स्वभिन्नलिङ्ग-
जन्यस्व विशेष्यकस्व समानजातीयेतर मेदानुमित्यविषयत्वम् ( दि० १११
पृ० ३७) । अथ वा स्वेन रूपेण भेदानुमापकत्वम् । यथा एकपरमाणौ
परमाण्वन्तर मेदसाधने विशेषस्य तत्तद्यक्तित्वेनैव हेतुत्वेन स्वतो व्यावर्तक-
त्वम् । अत्र तु तत्तद्व्यक्तित्वं च तादात्म्यसंबन्धेन सैव व्यक्तिः ( राम० ) ।
नव्यनैयायिकाः भट्टकुमारिल: प्राभाकरा: मध्वमतानुयायिवेदान्तिनश्च
एतादृश विशेषपदार्थ नाङ्गीचक्रुः । यथैव विशेषाणां स्ववृत्तिधर्मे विना
व्यावृत्तत्वं तथैव नित्यद्रव्याणामपि इति ( दि० १ पृ० ३७ ) (प्र०
प० पृ० ११ ) ( ता० र० श्लो० ५५ ) । २ विशेषकशब्दस्य अर्थ-
वदस्यार्थोनुसंधेयः । यथा पुरुषत्वव्याप्यकरादिमान् इत्यादौ पुरुषत्वादे-
विशेषः करादिधर्मः । ३ प्रभेदशब्दवदस्यार्थोनुसंधेयः । ४ व्याप्यधर्मः
(वै०
० १।२/५ ) । यथा सत्तामपेक्ष्य द्रव्यत्वम् । द्रव्यत्वमपेक्ष्य च
पृथिवीत्वं विशेष : ( व्याप्यधर्मः ) । ५ तद्वृत्तिधर्मः । यथा पदार्थविशेषः
( मू० म० १ ) इत्यादौ । अत्र पदार्थविशेषः इत्यस्य पदार्थवृत्तिधर्मः
इत्यर्थो ज्ञेयः । स च पदार्थत्वव्याप्यः । ६ निश्चायकोसाधारणधर्मः ।
यथा विशेषादर्शनं कोटिद्वयस्मरणं च संशयमात्रहेतुः इत्यादौ स्थाणुत्व-
निश्चायकं वॠकोटरादिमत्त्वम् पुरुषत्वनिश्चायकं करादिमत्त्वं च विशेष:
( सि० च० पृ० ३४ ) । ७ आधेयोनिर्वचनीयश्च कश्चिद्धर्मविशेषः
( अतिशयः ) । यथा अङ्कुरजननयोग्यबीजादौ विशेष: इति केचित्तत्त्व-
व्यवस्थापका आहुः । अत्रेदं विज्ञेयम् । कुसूलस्थबीजादिभिर्नाकुरो-
त्पत्तिः । अतः कृष्टक्षेत्रादा वुप्तबीजादौ सलिलपवनादियोगेन कश्चिद्विशेषो-
वश्यमाधेयः इति ।