This page has not been fully proofread.

न्यायकोशः ।
 
७८५
 
O
 
तेभ्यः प्रत्याधारम् अयमस्माद्विलक्षणः इति व्यावृत्तिप्रत्ययः देशकाल-
विशिष्टे च परमाणौ स एवायम् इति प्रत्यभिज्ञानं च भवति यतः तेन्त्या
विशेषा इति । एते च विशेषाः नित्यद्रव्याणां परस्पर भेदसाधकाः (नील०
पृ० ९४ ) । अथान्त्यविशेषेष्विव परमाणुषु कस्मान्न स्वतः एव व्यावृ-
त्तिप्रत्ययः प्रत्यभिज्ञानं वा कल्प्यते इति चेत् न । तादात्म्यात् । इह ता-
दात्म्यकल्पनानिमित्त प्रत्ययो भवति । यथा श्वमांसादीनां स्वत एवाशुचि-
त्वम् तद्योगादन्येषाम् । तथेहापि तादात्म्यादन्त्यविशेषेषु स्वत एव व्या-
वृत्तिप्रत्ययः । तद्योगात् परमाण्वादिष्विति ( प्रशस्त० पृ० ६४-६५) ।
अत्यन्त व्यावृत्ति हेतुरित्यस्य अयमस्माद्व्यावृत्तः इति व्यावृत्तिबुद्धिमात्रहेतुरि-
सर्थः इति कौमुदीकाराः (त० कौ० ) । ते खल्वत्यन्तव्यावृत्तिहेतुत्वाद्वि-
शेषा एव ( प्रशस्त० पृ० २) इति भाष्यम् । अत्र कन्दलीकार आह ।
खलुशब्दो निश्चये । नित्यद्रव्यवृत्तयो ये विशेषास्ते विशेषा एव निश्चिताः ।
न तु सामान्यान्यपि भवन्तीत्यर्थः । अत्यन्तं सर्वदा व्यावृत्तेरेव स्वाश्रय-
स्येतरस्माद्व्यवच्छेदस्यैव हेतुत्वात् कारणत्वात् ( न्या० क० पृ० १४ ) इति ।
[ग] विशेषो नामान्योन्या भावविरोधिसामान्यरहितः समवेत : ( सर्व ०
सं० पृ० २१७ औ० ) । विशेषपदार्थस्वीकारस्यावश्यकत्व मिदानीं
प्रदर्श्यते । घटादीनां सावयवपदार्थानां कपालसमवेतत्वादिकं पटादि-
भेदकमस्ति । परमाणूनां तु निरवयवत्वात्परस्परभेदकं न किंचिदस्ति ।
अतोनायत्या विशेष आश्रयितव्यः । अथ वा विशेषानभ्युपगमे समान-
जातिगुणकर्मत्रतां परमाणूनां मिथो व्यावृत्तिबुद्धिः न स्यात् । तादृशी
बुद्धिस्तु समानजातिगुणकर्मकाः परमाणवः अन्योन्यव्यावर्तकधर्मसंबन्धिनः
व्यावृत्तज्ञान विषयत्वात् द्रव्यत्वाद्वा गवादिवत् इत्यानुमानिकी ज्ञेया
( न्या० ली० पृ० ५३ ) । व्यावृत्तिबुद्ध्यभावस्येष्टापत्तौ योगिनोपि
तादृशपरमाणूनां ज्ञानसंकरः स्यात् इत्यतस्तव्यावृत्तिबुद्ध्यर्थे विशेषोङ्गी-
कर्तव्यः ( त० कौ० पृ० २८) ( प्र० प्र० ) इति । स च विशेषः
शब्दसमवायिकारणतावच्छेदकतयापि सिध्यति ( सि० च० ) ।
 
तथा ह्यनुमानम् शब्दसमवायिकारणता किंचिद्धर्मावच्छिन्ना कारणता-
त्वात् दण्ड निष्ठघटकारणतावत् इति । स च धर्मो विशेष एव । विशेष-
९९ न्या० को०
 
-