2023-02-20 00:56:47 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
ज्ञानादीनामत्यन्तव्यपोहो विशुद्धिः ( सर्व० सं० पृ० १६४ नकु० )।
[ग] धर्मज्ञास्तु दोषराहित्यं विशुद्धिरित्याहुः । २ शोधनम् ( प्रायश्चित्तम् )
( कुल्लू ० ) । यथा इयं विशुद्धिरुदिता ( मनु० अ० ११ श्लो० ८९ )
इत्यादौ इत्याहुः । अधिकं तु शुद्धिशब्दे दृश्यम् ।
७८४
विशङ्खलत्वम् –पार्थक्यम् । यथा घटवद्भूतलमित्यादौ घटः इति भूतलम्
इति चोपस्थित्योः परस्परं निरूप्यनिरूपकभावानापन्न विषयतावत्वेन
तत्तदर्थविषयकत्वाद्विशृङ्खलत्वम् ।
विशेषः - १ ( पदार्थः ) [क] अन्योन्याभावविरोधिसामान्यरहितः सम-
वेतः पदार्थविशेषः ( सर्व ० पृ० २१७ औलू ० ) । [ ख ] जाति-
रहितत्वे सति नित्यद्रव्यमात्रवृत्तिः । तथा चोक्तम् भजातिरेकवृत्तिश्च
विशेष इति शिष्यते ( ता० र० श्लो० ५३ ) इति । एकद्रव्यः स्वभाव-
सन् ( न्या० ली० पृ० ५) इति न्यायलीलावतीकाराः । स च अन्त्यो
नित्यद्रव्यसमवेतः । अन्ते अवसाने वर्तत इत्यन्त्यः । तदपेक्षया विशेषो
नास्तीत्यर्थ: । एकमात्रवृत्तिरिति फलितोर्थः (मु० १११ पृ० ३७ ) ।
किंच स विशेष: अत्यन्तव्यावृत्तिहेतुः ( भा० प० ) ( त० सुं० ) ।
तथा हि । घटादीनां द्व्यणुकपर्यन्तानां तत्तदवयवभेदात्परस्परं भेदः
सिद्ध्यति । परमाणूनां परस्परं भेदको विशेष एव । स तु स्वत एव
ब्यावृत्तः । तेन तत्र विशेषान्तरापेक्षा नास्ति इति भावः ( मु० १) ।
अत्र प्रयोगः एतद्विशेषस्तद्विशेषाद्भिद्यते तादात्म्येनैतद्विशेषात् इति ।
एवम् स्वतोव्यावर्तकत्वानुमानप्रयोगोपि विज्ञेयः ( सि० च० पृ० ३) ।
सूत्रे चोक्तम् अन्यत्रान्त्येभ्यो विशेषेभ्यः (वै० ११२/६ ) इति । अन्ते
भवा अन्त्याः । स्वाश्रय विशेषत्वाद्विशेषाः । विनाशारम्भरहितेषु नित्येष्व-
ण्वाकाशकाल दिगात्ममनःसु प्रतिद्रव्यमेकैकशो वर्तमाना अत्यन्तव्यावृत्त-
बुद्धिहेतषः । यथास्मदादीनां गवादिष्वश्वादिभ्यस्तुल्याकृतिगुणक्रिया-
व्यवसंयोगनिमित्ता प्रत्ययव्यावृत्तिर्दृष्टा । यथा गौः शुक्लः शीघ्रगतिः
ककुमान् महाघट इति तथास्मद्विशिष्टानां योगिनां नित्येषु तुल्याकृति-
गुणक्रियेषु परमाणुषु मुक्तात्ममनःसु चान्यनिमित्तासंभवात् येभ्यो निमि-
0