2023-02-20 00:56:47 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
७८३
रूपम् तदवच्छिन्नाविषयक प्रतीतिविषयतावच्छेदकं यत् स्वम् तदवच्छिन्न-
त्वम् इत्याहुः ( न्या० २० सामा० ) । अत्र तादृशं रूपं च विपरीत-
व्यभिचारत्वादिकमेव इति बोध्यम् । तथा हि । स्वं धूमाभाववद्वृत्तिवह्नित्व-
त्वम् । तत्समानाधिकरणं हेत्वाभासविभजकं रूपं तु व्यमिचारत्वं भवति ।
तत्समानाधिकरणं यद्धूमाभाववद्वृत्तिवह्नित्वत्वावच्छिन्ना विषयक प्रतीतिविष -
यतावच्छेदकं तादृशं रूपं तु वह्निनिष्ठधूमाभाववद्वृत्तित्वत्वमेव भवति ।
तदवच्छिन्नाविषयक प्रतीतिविषयतावच्छेदकं यत्स्वं तु धूमाभाववद्वृत्तित्व-
विशिष्टवह्नित्वत्वं भवति तदबच्छिन्नत्वं धूमाभाववद्वृत्तिवह्नित्वेस्ति इति
लक्षणसमन्वयो बोध्यः । इदं च गदाधर्यो स्वसजातीय विशिष्टान्तराघटि-
तत्वम् इत्युच्यते अयोगोलकं धूमवद्वः इत्यादौ बाधविशिष्टव्यभिचारा-
दावतिव्याप्तिसंपादकं च भवति इति ज्ञेयम् ( ग० हेत्वा० सामा०
पृ० १५-१६) । अयं च केचित्त इत्यादिनोक्तो यः कल्पस्तद्विषये
एवं श्रूयतेस्मगुरुमुखात् । अयं कल्पस्तु समासतो गदाधरेण विरचितः
व्यासत: परिष्कृतवद्भ्यो गाडगीळ इत्युपाहेभ्यो वाराणसीप्रामनिवासि-
जगन्नाथशास्त्रिभ्यः संगृह्य पुण्यप्रामनिवासिभि: गोडबोले इत्युपनामक
मेरुशास्त्रिमिः सम्यक् विरचय्य प्रकटीकृतः इति । [ग] विशिष्टान्तर-
विषयित्वाप्रयोज्यस्वविषयिताप्रयोज्यतादृशोभयाभावप्रयोजकाभावाधिकर-
णताकत्वम् । तादृशोभयाभावश्च प्रकृतपक्षे प्रकृतसाध्यवैशिष्ट्यावगाहित्व
साध्यव्याप्यहेतु वैशिष्ट्यावगाहित्व एतदुभयाभावः । इदं च सिद्धान्त-
सिद्धम् विशिष्टान्तराघटितत्वम् इत्युच्यते । यथा घूमव्यभिचारिवह्निमा-
न्धूमवान्वह्लेरित्यादावपि व्यभिचारघटितबाघस्य व्यभिचाररूपविशिष्टान्तरा-
घटितत्वम् । तथा हि । विशिष्टान्तर (केवलव्यभिचार) विषयित्वाप्रयोज्या
व ( व्यभिचारघटितबाघ) विषयिताप्रयोज्या या तादृशोभयाभावप्रयोजिका
अभावाधिकरणता ( पक्षे साध्य वैशिष्ट्या वगा हित्वाभावाधिकरणता )
तत्कत्वं धूमाभाववद्धूमव्यभिचारिवह्निमति व्यभिचारघटिते बाधे वर्तते
इति तत्र लक्षणसमन्वयो बोध्यः (ग० हेत्वा० सामा० पृ० २०-२५ ) ।
विशुद्धिः-१ [ क ] उद्दिष्टपदार्थसंबन्धराहित्यम् । यथा मायावादिनां
वल्लभानां च मते परब्रह्मणो विशुद्धिर्मायासंबन्धराहित्यम् । [ ख ] मिथ्या-