This page has not been fully proofread.

७८२
 
न्यायकोशः ।
 
तदा जीवस्य जगत्कर्तृत्वं नास्ति इत्यादि ज्ञेयम् । मोक्षे भगवत्साम्यमित्यत्र
निरञ्जनः परमं साम्यमुपैति (मु० ३ १/३ ) इति श्रुतिः प्रमाणम् ।
मध्वमते तु अक्षण्वन्तः कर्णवन्तः सखायो मनोजवेष्वसमा बभूवुः । आद-
घ्नास उपकक्षास उत्वे हदा इव स्नात्वा उत्वे दहश्रे ( ऋ० संहि ०
मण्ड० १०।७१।७) इति श्रुतिः प्रमाणम् । केचित्तु प्रकृतिविशिष्टस्य
ब्रह्मणः अद्यत्वम् शरीरशरीरिणोर्भेदविशिष्टाभेदो वा विशिष्टाद्वैतशग्दार्थ
इति मन्यन्ते ।
 
विशिष्टान्तराघटितत्वम् – [ क] अनुमितिप्रतिबन्धकतायां यादृशरूपा-
वच्छिन्नविषयकत्वमवच्छेदकम् (अनतिरिक्तवृत्ति) तादृशं यत् स्वाव-
च्छिन्ना विषयक प्रतीतिविषयतावच्छेदकम् तदवच्छिन्नाविषयक प्रतीतिविष-
यतावच्छेदकं यत् स्वम् तदवच्छिन्नत्वम् । यथा हृदो घूमवान्वद्वेरित्यादौ
व्यभिचारस्य बाधादिरूप विशिष्टान्तराघटितत्वम् । विशिष्टान्तराघटितत्व-
रूपविशेषणप्रयोजनं च गादाघरीय द्वितीय हेत्वाभाससामान्य लक्षणस्य धूम-
वान्वः इत्यादिस्थले प्रमेयत्वविशिष्टव्यभिचारादौ ( प्रमेयत्वविशिष्टधूमा-
भाववद्वृत्तिवहौ ) अतिव्याप्तिवारणरूपं बोध्यम् । स्वावच्छिन्नेत्यत्र यद्रूपा-
वच्छिन्ने लक्षणं संगमनीयम् तदेव स्वपदार्थः । हृदो धूमवान्चरित्यादौ
घूमाभाववद्वृत्तिवह्नित्वं व्यभिचारः । बाधस्तु धूमाभाववद्धदः । तथा
चात्र व्यभिचारत्वावच्छिन्नाविषयकत्वं बाधविषयकप्रतीतौ बाधत्वावच्छि-
नाविषयकत्वं च व्यभिचारविषयक प्रतीता वस्ति इति बाधत्वं व्यभिचार-
त्वावच्छिन्नाविषयकप्रतीतिविषयतावच्छेदकम् हृदो घूमवान् इत्यनुमिति-
निरूपित प्रतिबन्धकतायामनतिरिक्तवृत्तित्वरूपावच्छेदकतावच्च भवति ता-
दृशबाधत्वावच्छिन्नाविषयक प्रतीतिविषयतावच्छेदकं स्वं ( व्यभिचारत्वम् )
भवति । व्यभिचारत्वावच्छिन्नत्वं तु व्यभिचारे वर्तत इति लक्षणसमन्वयो
बोध्यः । प्रमेयत्वविशिष्टव्यभिचारादौ तु शुद्धव्यभिचाररूपविशिष्टान्तर-
घटितत्वेन तादृशलक्षणाभावान्नातिव्याप्तिश्च ( ग० २ हेत्वा० सामा०
पृ० १३) । [ख] केचित्तु स्वसमानाधिकरणहेत्वाभासविभाजकरूप-
समानाधिकरणं यत् स्वावच्छिन्नाविषयक प्रतीतिविषयतावच्छेदकं तादृशं