2023-02-20 00:56:46 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
७८१
वैचित्र्येण उद्देश्यतावच्छेदक विधेययोर्धर्मिपारतध्येण परस्परं प्रयोज्यप्रयो
जकभावेनान्वयः । यथा धनवान् सुखी इत्यत्र धनप्रयोज्यत्वस्य सुखे-
न्वयः । सुरापः पतति इत्यत्र च सुरापानस्य पतने प्रयोज्यत्वेनान्वयः
( ग० सव्य० ) इति । ५ कचित् विशिष्टज्ञानम् । विशेषणवद्विशेष्य-
विषयकं ज्ञानम् इत्यर्थ: ( चि० १ पृ० ८२१ ) । यथा अयं दण्डी इति
ज्ञानम् । अत्र ज्ञाने च इदंपदार्थ विशेष्यांशे दण्डात्मक विशेषणप्रतियोगिक-
संबन्धः संसर्गतया भासते विशेषणज्ञानं कारणं च भवति इति विज्ञेयम् ।
-
विशिष्टाद्वैतम् – सूक्ष्म चिदचिदात्मकशरीर विशिष्टस्य कारणस्य परमात्मनः
स्थूलचिदचिदात्मकशरीर विशिष्टस्य कार्यस्य परमात्मनश्चैक्यम् । यथा
रामानुजमते विशिष्टाद्वैतम् । अत्र विशिष्टयोर द्वैतम् इति षष्ठीतत्पुरुषो
ज्ञेयः । द्वैतविशिष्टमद्वैतम् इत्यन्य आहुः । अत्र नियम्यनियामकभावेन
शरीरशरीरिभावो विज्ञेयः । तत्र चिदचिदात्मकं शरीरं नियम्यम् ।
तदन्तर्यामी परमात्मा तन्नियामकः । अत्र श्रुतिः यः पृथिव्यां तिष्ठन्
पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो
यमयति स त आत्मान्तर्याभ्यमृतः (शतप० बृह० १४/६/७/७ )
इत्यादिः । अत्रेदं विज्ञेयम् । रामानुजाचार्यस्य जन्म द्रविडदेशे भूतपुरीत्य-
परनाम्यां प्रेमधुलाख्यायां (पेरंबुदूर ) पुरि एकोनपञ्चाशदधिके सहस्रे
( शाके १०४९) वर्षे समजनि । तस्य पिता केशवभट्टः । माता कान्ति-
मती । मातुलो यादवप्रकाशः । स एव विद्यागुरुश्च इति । अत्र श्रूयते ।
शापवशाच्छ्रद्रजन्म प्राप्तेन शठकोपनाम्ना (नम्मालबार) द्रविडेन द्रविड-
भाषया वेदान्तप्रबन्धा विरचिताः । ततस्तान् प्रबन्धाननुरुध्य बोधाय-
नाख्यद्रविडब्राह्मणकृतां ब्रह्मसूत्रवृत्तिं च सहकृत्य गीर्वाणभाषया ब्रह्मसूत्रस्य
श्रीभाष्यमकारि रामानुजाचार्येण । रामानुजमते चित् जीवः १ अचित्
जड: २ ईश्वर: नियन्ता परमात्मा ३ इति त्रयः पदार्थाः । ईश्वरो जगत
उपादानं निमित्तं च । सत्कार्यवादः । परिणामवादः । मोक्षदशायामपि
जीवब्रह्मणोर्भेदः पारमार्थिकः । तथापि परमभगवत्साम्यरूपमोक्षदशायां
जीवब्रह्मणोरानन्दतारतम्यं यथा मध्वमतेस्ति तथा नास्ति इति । तथापि