2023-02-20 00:56:46 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
द्वितीये रूपे स्पर्शो विशेषणम् । तथा च स्पर्शात्मक विशेषणस्य वायौ
सत्त्वेपि विशेष्यभूतस्य रूपस्याभावात् स्पर्शविशिष्टरूपस्याप्य भावो मन्तव्यः ।
तृतीये घटत्वे रूपं विशेषणम् । तथा च विशेषणस्य रूपस्य विशेष्यस्य
घटत्वस्य च वायावभावेन रूपविशिष्टघटत्वस्याप्यभावो मन्तव्यः ।
२ विशेषयुक्तः । यथा संज्ञा कर्म त्वस्मद्विशिष्टानां लिङ्गम् (बै० २११/१८)
इत्यादावस्मद्विशिष्टा ईश्वरमहर्षयः ।
७८०
विशिष्ट विशेषणकज्ञानम् – १ विशेषणवद्विशेष्यस्य धर्मिणि वैशिष्य-
विषयकं ज्ञानम् । यथा दण्डवान् पुरुषः इति ज्ञानम् । तद्विविधम्
विशेषणोपलक्षित प्रतियोगिकवैशिष्ट्यावगाहि विशेषणविशिष्टप्रतियोगिक-
वैशिष्ट्यावगाहि चेति । तत्राद्ये विशेषणज्ञानासंसर्गाग्रहयोरेवापेक्षा न तु
विशेषणतावच्छेदकप्रकारकधियोप्यपेक्षा ( ग० बाघ ० ) । द्वितीये तु
विशेषणतावच्छेदकप्रकारकधियोपेक्षा । २ क्वचित् विशेष्ये यद्वि-
शेषणम् तत्रापि विशेषणान्तरम् इति रीत्या जायमानं ज्ञानं भवति । यथा
दण्डवान् पुरुषः इति ज्ञानम् । अत्र ज्ञाने पुरुषांशे दण्डः दण्डे च
दण्डत्वम् विशेषणतया भासते न तु दण्डत्वं पुरुषांशे विशेषणतावच्छे-
दकतया भासते । अत्र विशृङ्खलोपस्थितिः प्रयोजिका इति विज्ञेयम् । ३
क्वचित् एकत्र द्वयम् इति रीत्या जायमानं ज्ञानं भवति । यथा दण्डवान्
पुरुषः इति ज्ञानम् । अत्र ज्ञाने च एकस्यां व्यक्तौ ( पुरुषे ) पुरुषत्वं
दण्डश्च एतदुभयं विशेषणतयैव भासते । न तु विशेषण विशेष्यतावच्छे-
दकभावेन इति । अत्र विशेषणत्वे नोभयोपस्थितिः प्रयोजिका इति बोध्यम् ।
४ कचित् विशिष्टवैशिष्ट्यावगाहि ज्ञानं भवति । अत्र ज्ञाने च विशे-
षणतावच्छेदकप्रकारकं ज्ञानं कारणं भवति इति ध्येयम् । यथा दण्डवान्
पुरुषः इति ज्ञानम् । अत्र च दण्डत्वात्मकविशेषणावच्छिन्न प्रतियोगिक-
वैशिष्ट्याख्यः संबन्धः संसर्गतया पुरुषांशे भासते। इदमेव ज्ञानं विशिष्ट-
विशेषणकज्ञानप्रभेद विशेषणविशिष्टप्रतियोगिक वैशिष्ट्यावगाहि भवति
विशेषणोपलक्षितप्रतियोगिक वैशिष्ट्यावगाहिज्ञानाद्भिद्यते च इति बोध्यम् ।
अत्रेदं बोध्यम् । विशिष्टवैशिष्ट्या वगाहिशाब्दबोधे त्वयं भेदः । व्युत्पत्ति-
: