2023-02-20 00:56:45 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
७७९
-
विवेकः – १ [ क ] पृथक्त्वेन ज्ञानम् । यथा नीरक्षीरविवेकः । [ ख ]
विशेषरूपेण ज्ञानम् इति केचिदाहुः । [ग] अन्योन्यधर्मव्यावर्तनेन
याथार्थ्येन वस्तुवरूपावधारणम् । यथा सांख्यमते प्रकृतिपुरुषयोर्भेद-
ज्ञानम् । २ विचारः । ३ विवेको नामादुष्टादनात्सत्त्वशुद्धिः ( सर्व ०
सं० पृ० १२४ रामानु० ) ।
विशिष्टद्वयाघटितत्वम् -- यादृश विशिष्टविषयक निश्चयविशिष्टयादृश विशिष्ट-
विषयकनिश्चयत्वं प्रकृतानुमितिप्रतिबन्धकतानतिरिक्तवृत्ति भवति तादृश-
विशिष्टद्वयाघटितत्वम् । यथा हृदो वह्निमान्धूमादित्यादौ बयभाववज्र-
दात्मकबाधस्य जलावच्छिन्नवयभाव जलवद एतद्विशिष्टद्याघटितत्वम्
( ग० २ हेत्वा० सामा० पृ० ११) । विशिष्टद्वयाघटितत्वरूपस्य
विशेषणस्य प्रयोजनं च गादाधरीयद्वितीय हेत्वाभाससामान्यलक्षणे हृदो
वह्निमानित्यादौ वह्नयभाववज्जलादिमद्वृत्तिजलवन्द्रदरूपविशिष्टे अलक्ष्येति-
व्याप्तिवारणम् इति विज्ञेयम् । यद्रूपावच्छिन्न विषयक निश्चयविशिष्टयद्रूपा.
वच्छिन्नाविषयकयद्रपावच्छिन्न विषय क निश्चयत्वं स्वव्यापकत्व स्वाभाववढ-
त्तित्व एतदुभयसंबन्धेन स्वावच्छिन्नविषयताव्यापकप्रतिबन्धकताविशिष्टा-
न्यज्ञानवैशिष्ट्यावच्छिन्न प्रतिबन्धकतानतिरिक्तवृत्ति भवति तत्तद्रूपावच्छि-
नाविषयक प्रतीति विषयत्वं फलितोर्थः । तेन नातिव्याध्यव्याध्यादयो दोषाः
इत्यस्मद्गुरुचरणाः प्राहुः ।
-
विशिष्टम् – १ विशेषणवद्विशेष्यम् ( चि० १ ) । यथा द्रव्यं गुणव-
दित्यादौ द्रव्यं गुणविशिष्टम् । अत्रायं विशेषः । विशिष्टज्ञानं प्रति विशेषण-
ज्ञानं कारणम इति कार्यकारणभावो नैयायिकसिद्धान्तसिद्धो ज्ञातव्यः ।
अत्रेदमधिकं ज्ञेयम् । विशिष्टाभावस्त्रिविधः विशेषणाभावप्रयुक्तः विशे-
ष्याभावप्रयुक्तः उभयाभावप्रयुक्तश्चेति । तत्राद्यो यथा वायौ रूपवि-
शिष्टस्पर्शस्याभावः । द्वितीयो यथा वायौ स्पर्शविशिष्टरूपस्याभावः ।
तृतीयो यथा वायौ रूपविशिष्टघटत्वस्याभावः इति । अत्र वैशिष्ट्यं च
साहित्यं सामानाधिकरण्यं वा ज्ञेयम् । तत्राद्ये स्पर्शे रूपं विशेषणम् ।
तस्य वायावभावात् स्पर्शसत्त्वेपि रूपविशिष्टस्पर्श स्याप्यभावो मन्तव्यः ।
.