This page has not been fully proofread.

न्यायकोशः ।
 
७७७
 
विवरणम् – १ [ क ] तत्समानार्थबोधकपदान्तरेण तदर्थकथनम् । यथा
पचति इत्यस्य पाकं करोति इति विवरणम् (मु० ४ ) । विवरणस्य शक्ति-
ग्राहकत्वे प्रमाणमनुमानम् । तच्च यथा आख्यातपदं यत्नत्वावच्छिन्ने शक्तम्
यत्नत्वावच्छिन्नशक्तकरोति धातुप्रतिपादितार्थकत्वात् यद्यद्धर्मावच्छिन्नशक्त-
प्रतिपादितार्थकं भवति तत्तद्धर्मावच्छिन्ने शक्तं भवति पाकत्वविशिष्टशक्त-
पाकपदप्रतिपादितार्थकपचधातुवत् इति सामान्यतो दृष्टानुमानम् ( त०
प्र० ख० ४ पृ० ७३ ) । [ ख ] पूर्वोच्चरितवाक्यस्योत्तरवाक्येनार्थ-
कथनम् ( त० प्र० ख० ४ पृ० ७३ ) । २ ग्रन्थविशेषः । यथा
नागेशकृतं कैयटोपरि विवरणम् ।
 
विवर्तः– १ [ क ] अतात्त्विकोन्यथाभावः । स च अपरित्यक्त पूर्वरूपस्य
रूपान्तरप्रकारकप्रतीतिविषयत्वम् ( वै० सा० द० पृ० २ ) । यथा
मायावादिमते परब्रह्मणि सर्वस्य जगतो विवर्तः । [ख ] पूर्वरूपापरि-
त्यागेनासत्यनानाकारप्रतिभासः । यथा शुक्तिकायां रजतस्य राज्यां वा
सर्पस्य प्रतीतिः (अथर्वभाष्ये सायणः ) । शिष्टं तु वादशब्दव्याख्याने
दृश्यम् । [ग] स्वरूपापरित्यागेन रूपान्तरापत्तिर्विवर्तः ( सर्व० सं०
पृ० ४२० शं० ) । २ नृत्यम् इति नर्तका आहुः । ३ समुदायः इति
काव्यज्ञा आहुः (वाच० ) ।
 
-
 
विवसनः – ( दिगम्बर: नास्तिकः ) अर्हन्नामको जिनः । तन्मते सप्त
पदार्था: जीव: अजीव: आस्रवः संवरः निर्जरः बन्धः मोक्षच इति ।
संक्षेपतस्तु जीवाजीवाख्यौ द्वावेव पदार्थों । तयोरिममपरं प्रपञ्चमाचक्षते ।
पञ्चास्तिकाया नाम जीवास्तिकायः पुद्गलास्तिकायः धर्मास्तिकायः अधर्मा-
स्तिकायः आकाश ।स्तिकायश्चेति । सर्वेषामप्येतेषामवान्तर भेदा बहुविधा:
सन्ति विस्तरभयान्त्रोक्ताः इति । अत्र अस्तिकायशब्दः संकेतितः पदार्थ-
बाची ( शारी० मा० टी० २।२।३३ ) । अस्तीति कायते शब्धते
इत्यस्तिकायः पदार्थः । एतन्मते जीवः शरीरपरिमाणः । मोक्षस्तु
जीवस्योर्ध्वगमनमेव ( शारीरकभाष्ये अ० २ पा० २ सू० ३३-३४ ) ।
सप्तभङ्गीनयस्तु स्याद्वादशब्दव्याख्यानावसरे संपादयिष्यते । अत्र शिष्टं
तु नास्तिक इत्यादितत्तच्छन्दव्याख्याने दृश्यम् ।
 
९८ न्या० को०