2023-02-20 00:56:45 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
विरुद्ध त्रिकद्वयम् – उपादेयत्वम् विधेयत्वम् गुणत्वं चेत्येकं त्रिकम् । उद्दे-
श्यत्वम् अनुवाद्यत्वम् मुख्यत्वं चेत्यपरं त्रिकम् ( जै० न्या० अ० १
पा० ४ अधि० ६)
विरुद्धत्वम्
1
-
– १ ( हेतुदोषः ) विपक्षमात्रस्पर्शित्वम् । साध्याभावव्याप्ति-
विरुद्धत्वम् इति परमार्थ: ( त० मा० ) ( वाक्य० ) । व्याप्तिश्चात्र
अन्वयव्याप्तिः पूर्वपक्षीया साध्यवदवृत्तित्वरूपा ( साध्या सामानाधिकर-
ण्यम् ) इति प्रायो मणिकारादय आहुः । नव्या दीधितिकारादयस्तु
साध्याभावस्य व्याप्तिस्तु व्यतिरेकव्याप्तिः साध्यव्यापकाभावप्रतियोगित्व-
रूपा इत्याहुः ( नील० २१० २५) ( दीषि० २ हेत्वाभा० पृ०
१९७ ) । अथ वा साध्या सामानाधिकरण्यादि । अत्रायमर्थः । साध्या-
समानाधिकरणत्वं च साध्यानधिकरणे हेतोर्वर्तमानत्वम् न तु साध्या-
धिकरणे हेतोरवर्तमानत्वम् । अतः न वह्निमानाकाशादित्यत्र स्वरूपा-
सिद्धेतिव्याप्तिः ( म० प्र० २ १० २६ ) इति । इदं विरुद्धत्वं च
मणिकृन्मताभिप्रायेणास्ति अन्वयव्याप्तिग्रहविरोधि च भवति इति विज्ञेयम्
( दीधि ० २ पृ० १९७ ) ( न्या० म० २ पृ० २० ) । साध्यव्यापका-
भावप्रतियोगित्वम् । वृत्तिमतः साध्यवदवृत्तित्वम् । साध्यवद्वृत्तित्वानधिकर-
णत्वम् । साध्यासमानाधिकरणधर्मत्वम् । साध्यवद्वृत्तित्वानधिकरणवर्मत्वं
वा ( चि० पृ० ९२-९३ ) । यथा गौरश्वत्वादित्यादौ ( न्या० म० ) ।
यथा वा हृदो वह्निमाञ्जलादित्यत्र जलस्य विरुद्धत्वम् । २ विरोधित्व-
शब्दवदस्यार्थोनुसंधेयः ( न्या० सि० दी० पृ० ५६ ) ।
-
विरोधः - १ इष्टार्थभङ्ग (निग्रहस्थानम् ) ( त० भा० पू० ५१ ) ।
२ कचित् तद्वत्ताग्रह प्रतिबन्ध कज्ञान विषयत्वम् ( ग० सत्प्र० ) । यथा
हदे वहिमत्ताग्रहप्रतिबन्ध कनिश्चयविषयस्य वड्यभाववद्भदस्य हृदो वहि-
मान् इत्यनेन सह विरोधः । ३ विरुद्धत्वम् (त०भा० ) ( वाक्य० ) ।
४ विरोधित्वम् ( दीधि ० २ ) ( ग० बाघ ० ) । ५ परस्पराभाव-
व्याप्यत्वाविशेषितयोः परस्परज्ञान प्रतिबन्धकीभूतज्ञानविषयत्वम् । अयं च
स्वरूपतो विरोधः इत्युच्यते ( ग० सव्य० ) । यथा घटघटाभावयो-