2023-02-20 00:56:45 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
व्याहन्तीति । यथा सोयं विकारो व्यक्तेरपैति नित्यत्वविरोधादपेतोप्यस्ति
विनाशप्रतिषेधान्न नित्यो विकार उपपद्यते । इत्येवं हेतुर्व्यक्तेरपेतोपि
विकारोस्तीत्यनेन स्वसिद्धान्तेन विरुद्ध्यते । कथम् । व्यक्तिरात्मलाभः ।
अपाय: प्रच्युतिः । यद्यात्मलाभात्प्रच्युतो विकारोस्ति नित्यत्वप्रतिषेधो
नोपपद्यते । व्यक्तेरपेतस्यापि विकारस्यास्तित्वं तत्खलु नित्यत्वमिति ।
नित्यत्वप्रतिषेधो नाम विकारस्यात्मलाभारप्रच्युतेरुपपत्तिः । यदात्मलाभा-
प्रच्यवते तदनित्यं दृष्टम् । यदस्ति न तदात्मलाभात्प्रच्यवते । अस्तित्वं
चात्मलाभाष्प्रच्युतिरिति च विरुद्धावेतौ न सह संभवत इति । सोयं हेतु-
र्यत्सिद्धान्तमाश्रित्य प्रवर्तते तमेव व्याहन्तीति ( वात्स्या० १।२१६ ) ।
वृत्तिकार इदं सूत्रमित्थं व्यवृत । अत्र च सिद्धान्तं साध्यम् । प्रतिज्ञाय
हि पक्षस्य सिद्धस्यान्ते साध्यमभिधीयते । तथा च साध्यमभ्युपेत्योद्दिश्य
प्रयुक्तस्तद्विरोधी साध्याभावव्याप्त इति फलितार्थः । यथा वह्निमान्
हृदत्वादिति । एतस्य साध्याभावानुमितिसामग्रीत्वेन साध्यानुमिति प्रतिबन्धो
दूषकताबीजम् । न च सत्प्रतिपक्षाविशेषः । यतः तत्र हेत्वन्तरं साध्या-
भावसाधकम् । इह तु हेतुरेक एव इति विशेषः । साध्याभावसाधक
एव हेतु: साध्यसाधकत्वेन त्वयोपन्यस्तः इत्यशक्तिविशेषोन्नायकत्वेन विशे-
षश्च ( गौ० वृ० ११२१६ ) (मु० २ हेत्वा० पृ० १६० ) इति ।
अत्रायमाशयः । वस्तुगत्या साध्याभावसाधके हेतावेव तव साध्यसाधकत्व-
भ्रमः इति स्थापनावादिनं प्रति भ्रमरूपाशक्तिसूचकत्वं विरुद्धस्य । न त्वेवं
सप्रतिपक्षस्य इति विरुद्धसत्प्रतिपक्षयोर्भेदः (दि० २ पृ० १६० ) इति ।
[ ख ] यो ह्यनुमेये विद्यमानेपि तत्सजातीये सर्वस्मिन्नास्ति तद्विपरीते
चास्ति स विपरीतसाधनाद्विरुद्धः । यथा यस्माद्विषाणी तस्मादश्व इति
( प्रशस्त ० २ पृ० २९ ) । [ग ] विपरीतव्याप्तिकश्च विरुद्धः
(बै० उ० ३११ । १५) । [घ ] साध्याभावव्याप्तो हेतुः । यथा अयं
गौरश्वत्वात् इति ( त० कौ० ) ( त० सं० ) । अत्र च यत्र यत्राश्वत्वं
तत्र तत्र गोत्वाभावः इति साध्याभावव्याप्तेः सत्त्वादश्वत्वं हेतुर्विरुद्धः ।
विरुद्धत्वज्ञानं च साक्षादनुमितिप्रतिबन्धकम् । गोत्वाभावव्याप्ताश्वत्ववत्ता-
ज्ञाने सति गोत्वनिश्चयासंभवात् ( त० कौ० २) । तेन हेत्वाभास-
●
७७२