2023-02-20 00:56:44 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
विभाग: शब्दस्य विभागस्य च हेतुर्भवति ( प्रशस्त० गु० पृ० ३२)
इति । तत्र विभागः शब्दस्य हेतुर्यथा वंशे पाव्यमाने यः चटचटाशब्दः
स विभागजन्यः । तत्र वंशदलद्वयाकाशविभागः असमवायिकारणम्
वंशदलद्वयविभागो निमित्तकारणम् इति विज्ञेयम् ( त० कौ० गु०
पृ० १९) । विभागस्य विभागहेतुत्वं तु समनन्तरमेवोक्तम् । अत्र
विनाशस्तु सर्वस्य विभागस्य क्षणिकत्वात् उत्तरसंयोगावधिसद्भावात् ।
कचित् आश्रयविनाशादेव विनश्यति ( प्रशस्त० गु० १० ३४ )।
तथा हि यदा द्वितन्तुककारणावयवेंशौ कर्मोत्पन्नमंश्वन्तराद्विभागमारभते
सदैव तन्त्वन्तरेपि कर्मोत्पद्यते विभागाच तत्त्वारम्भकसंयोगविनाशः
तन्तुकर्मणा तन्त्वन्तराद्विभागः क्रियते इत्येकः कालः । ततो यस्मिन्नेव
काले विभागात्तन्तुसंयोग विनाशः तस्मिन्नेव काले संयोगविनाशात्तन्तु-
विनाशः । तस्मिन्विनष्टे तदाश्रितस्य तन्त्वन्तरविभागस्य विनाशः
( प्रशस्त० गु० पृ० १९) इति । अन्यत्र चैवमुक्तम् । विभागश्च क्षणत्र-
याबस्थायी भवति । स च क्वचिठ् उत्तरदेश संयोगात् कचिदाश्रयनाशात्
कचिदुभाभ्यां च नश्यति ( त० व० २०७ ) ( त० दी० ) (f
' सि०
च० ) ( प्रशस्त० पृ० १८) इति । २ विभजनम् ( वाक्य ०
पृ० २ ) । ३ [ क ] व्यवहारशास्त्रज्ञास्तु द्रव्यसमुदायविषयाणामनेक-
स्वाम्यानां तत्तदेकदेशे व्यवस्थापनम् ( मिताक्षरा अ० २ श्लो० १९६
टी० पृ० ६१ ) । यथा विभागं चेत्पिता कुर्यादिच्छया विभजेत्सुतान् ।
ज्येष्ठ वा श्रेष्ठभागेन सर्वे वा स्युः समांशिनः ॥ ( याज्ञ० अ० २
लो० ११७) इत्यादौ ( वीरमित्रो० अ० २ पृ० ५२२) इत्याहुः ।
श्रेष्ठादिविभागश्च मनुनोक्तः ज्येष्ठस्य विंश उद्धारः सर्वद्रव्याच्च यद्वरम् ।
ततोर्धे मध्यमस्य स्यात्तुरीयं तु यवीयसः ॥ ( मनु० अ० ९ श्लो० ११२ )
( आपस्त सू० २/६/१४ ।७ ) इति । [ ख ] अन्ये व्यवहारशास्त्रज्ञास्तु
पूर्वस्वामिस्वस्वनाशोत्तरं तत्संबन्धाधीनत्वेन जातस्वत्वस्य व्यञ्जको व्यापार-
विशेष इत्याहु: ( बाच० ) । ४ कार्यकारणयोगविधिदुःखान्तानां यथा-
संभवं लक्षणतः असंकरेणाभिधानं विभागः ( सर्व० सं० पृ० १७१
नकुली ० ) ।