2023-02-20 00:54:07 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः।
च० २० ) । [ख] अनुभूतिर्हि स्वसद्भावेनैव कस्यचिद्वस्तुनो व्यव
हारानुगुणत्वापादनस्वभावो ज्ञानावगतिसंविदायपरनामा सकर्मकोनुभवि-
तुरात्मनो धर्मविशेष: ( सर्वद० सं० १० ९८ रामानु० ) ।
अनुमतिः
- १ अनुज्ञा । यथा अनुमत्या व्यपेयादित्यादौ । २ कलाहीन-
चन्द्रवती शुक्लचतुर्दशीयुक्ता पूर्णिमा तिथिरिति याज्ञिका आहुः (बाच ०) ।
अनुमा– अनुमितिः ( मु० २ ) । यथा - अनुमायां ज्ञायमानं लिङ्गं तु करणं
न हि (भा०प० श्लो० ६८ ) इत्यादौ - अनुमा शब्दस्यार्थः ।
अनुमानम् – ( प्रमाज्ञानविशेषः ) यथा धूमेन प्रत्यक्षेणाप्रत्यक्षस्य बड़े-
ग्रहणमनुमानम् (वात्स्या० २११४६) । अत्र मितेन लिनार्थस्य
पश्चान्मानमनुमानमिति व्युत्पत्तिः ( वात्स्या० ११ १/३ ) । अनुमानस्य
द्वे अने । व्याप्तिः पक्षधर्मता चेति । तत्र व्याप्त्या साध्यसामान्यसिद्धिः ।
हेतोः पक्षधर्मताबलात् साध्यस्य पक्षधर्मत्वविशेषः सिध्यति । पक्षधर्मेण
धूमबत्त्वेनाभिरपि पर्वतसंबद्ध एवानुमीयते ( त० मा० १४ ) ।
अनुमानम् – ( प्रमाणम् ) १ अनुमितिकरणम् ( त० स० ) । अनु-
मितिकरणं द्विविधम् । तत्र प्रथमं व्याप्तिज्ञानम् (गौ० १० ११११५)।
यथा पर्वतो बहिमान् घूमादित्यादी घूमो बहिव्याप्यः इति व्याप्तिज्ञान-
मनुमितिकरणं भवति ( त० कौ० १० ) । अनुमानं च लिङ्गलिङ्गिनोः
संबन्धदर्शनम् (वात्स्या० ११११५ ) । तच्च सहचारप्रत्यक्षेण जन्यते
( गौ० दृ० १/१/५) । एतस्य करणत्वाभिधानं च व्यापारवदसाधा.
रणं कारणं करणमिति प्राचीनमतानुसारेण । अस्मिन् मतेनुमितिकरणप-
दस्य जनकतयानुमितित्वावच्छिन्न जनकवत्रे सत्यनुमितित्वावच्छिन्नजन-
कम् इत्यर्थः ( वाक्य ० ) । अत्र व्यापारस्तृतीयलिङ्गपरामर्शो ज्ञेयः ( स०
कौ० ) । द्वितीयमनुमितिकरणं तु लिङ्गपरामर्शः । यथा बहिव्याप्यघूम-
वानयम् इति ज्ञानमनुमिते: करणं भवति (चि० २) (त० भा० ) ( त०
सं० ) । अत्र च फलायोगव्यवच्छिन्नं कारणं करणमिति नवीनमतानुसा-
रेणैतस्य करणत्वाभिधानम् । अनुमानं द्विविधम् । स्वार्थम् परार्थम् ।
स्वस्यैवार्थः प्रयोजनं ( अनुमितिः ) यस्मात्तत् स्वार्थम् । परस्य प्रतिवा-
दिनो मध्यस्थस्य वा अर्थोनुमित्यात्मकं प्रयोजनं संशयनिवृत्तिर्वा यस्मा-
सत् परार्थम् । आयं स्वानुमितिहेतुः । द्वितीयं परानुमितिहेतुः । तथा
-