2023-02-20 00:56:44 by ambuda-bot
This page has not been fully proofread.
७६६
न्यायकोशः ।
संभवतः । न चान्यतरसाधको हेतुरुपलभ्यते । तत्र तस्त्रानवधारणं
संशयः ( वात्स्या० ११ १२३ ) इति । [ ख ] वेदान्तिनस्तु विरुद्धार्थक
वाक्यद्वयजन्यप्रतीतिद्वयम् इत्याहुः (प्र०प० टी० वेदेशतीर्थी० पृ० ८) ।
[ग] विरुद्धकोटिद्वयोपस्थापकः शब्दः ( गौ० वृ० १११।२३ )
( दि० गु० ) । स च विरुद्धार्थप्रतिपादकवाक्यद्वयात्मकः पर्वतो वह्नि-
मान् न वा इति संशयापादकः । [घ ] विरुद्धार्थप्रतिपादकवाक्यद्वयम्
(नील० ४ पृ० ३४ ) । यथा पर्वतो वहिमान् न वा इति वाक्य-
द्वयम् । तथा हि । वादिना पर्वतो वह्निमान् इति प्रतिवादिना च पर्वतो
वहयभाववान् इति प्रतिज्ञाते मध्यस्थस्य पर्वतो वह्निमान् न वा इति
संशय उत्पद्यते । अतस्तस्य संशयाधायकत्वात्तथात्वम् । २ [क]
विपरीता वा कुत्सिता वा प्रतिपत्तिः विप्रतिपत्तिः । विप्रतिपद्यमानः
पराजयं प्राप्नोति । निग्रहस्थानं खलु पराजयप्राप्तिः (वात्स्या० १/२/१९)।
[ ख ] विरुद्ध प्रतिपत्तिः ( गौ० वृ० १२ / २ / १९ ) ( दि० गु० ) ।
भत्रोदाहियते परस्परं मनुष्याणां स्वार्थे विप्रतिपत्तिषु ( स्मृतिः ) इति ।
इयं तु निग्रहस्थानोन्त्रेया इति विज्ञेयम् । ३ विरोधः । ४ ऊहः इति
याज्ञिका आहुः ( कात्या० श्रौ० ) ।
◄
विप्रतिषेधः - १ तुल्यबलविरोधः । यथा प्रतिषेधविप्रतिषेधे प्रतिषेधवदोषः
( गौ० ५/११४१ ) इत्यादौ । अत्र भाष्यम् । योयं प्रतिषेधेपि समानो दोषो-
नैकान्तिकत्वमापद्यते सोयं प्रतिषेधस्य प्रतिषेधेपि समानः । तत्र अनित्यः
शब्दः प्रयत्नानन्तरीयकत्वात् इति साधनवादिनः स्थापना प्रथमः पक्षः ।
प्रयत्नकार्यानेकत्वात्कार्यसमः इति दूषणवादिनः प्रतिषेधहेतुना द्वितीयः
पक्षः । स च प्रतिषेध इत्युच्यते । तस्यास्य प्रतिषेधस्य प्रतिषेधेपि समानो
दोषः इति तृतीयः पक्षः विप्रतिषेध इत्युच्यते । तस्मिन् प्रतिषेधविप्रति-
षेधेपि समानो दोषोनैकान्तिकत्वम् चतुर्थः पक्षः (वात्स्या० ५/१/४१ ) ।
अत्र वृत्तिः । शब्दः अनित्यः प्रयत्नानन्तरीयकत्वात् इति स्थापनावादिनः
प्रथमः पक्षः । प्रयत्नकार्यानेकवार कार्यसमः इति प्रतिवादिनो द्वितीयः
पक्षः । प्रतिषेधप्रतिषेधेष्यनैकान्तिकत्वं तुल्यम् इति वादिनस्तृतीयः पक्षो