This page has not been fully proofread.

न्यायकोशः ।
 
करणत्वेनेन्द्रियं भावयेत् इति बाक्यार्थः । तच दधिकरणत्वम् किंनिष्ठम्
इत्याकायां संनिधिप्राप्तहोम आश्रयत्वेनान्वेति (लौ ० भा० पृ० १६) ।
[ग] ] अङ्गप्रधानसंबन्धबोधको विधिर्विनियोगविधि: ( मी० न्या०
पृ० १२ ) । विनियोगविधेः सहकारिभूतानि षट् प्रमाणानि सन्ति
श्रुतिः लिङ्गम् वाक्यम् प्रकरणम् स्थानम् समाख्या इति ( लौ० भा०
पृ० १६-२९ ) । एतत्सहकृतेनानेन विधिना अङ्गत्वं परेरदेशप्रवृत्तकृति-
साध्यत्वरूपपारार्थ्यापरपर्यायं ज्ञाप्यते ।
 
७६४
 
विपक्ष: -१ [ क ] निश्चितसाध्याभाववान् । यथा पर्वते वह्निसाधने
हृदो विपक्षः ( त० सं० २) । विपक्षत्वं च साध्याभावप्रकारक-
निश्चयविशेष्यत्वम् ( न्या० बो० २) अथ वा विशेष्यतासंबन्धेन
साध्याभाव प्रकार कनिश्चयवत्वम् ( वाक्य० २) इति ज्ञेयम् । [ ख ]
वेदान्तिनस्तु साध्यतत्समानधर्मरहितो धर्मी इत्याहुः (प्र० च० पृ० २४ )।
२ प्रतिकूलपक्षः इति व्यवहारज्ञा आहुः । ३ शत्रुः इति काव्यज्ञा
आहुः ( अमरः ) ।
 
विपरीतज्ञानम् - १ संशयः (नील० ) । २ भ्रमः ।
विपर्ययः–१ (अप्रमा ) [ क ] मिथ्याज्ञानापरपर्यायः अयथार्थनिश्चयः
( गौ० वृ० ४।१।३ ) । अत्र अयथार्थज्ञानमेव नास्ति इति प्राभाकरा-
दय आहुः ( प्र० प० पृ० ४ ) । [ ख ] वेदान्तिनस्तु विपरीतनिश्चयः
( प्र० १० १० ४ ) । अत्र विपरीतत्वं च पुरोवर्तिन्यविद्यमान प्रकारक-
त्वम् ( प्र० प० टी० वेदेशतीर्थी० पृ० १०) । विपरीतनिश्चयश्च
प्रत्यक्षानुमानागमाभासेम्यो जायते । तत्र प्रत्यक्षाभासजो यथा शुक्तिकायां
इदं रजतम् इत्यादि । अनुमानाभासजो यथा धूलीपटले धूमभ्रमाद्वह्वय-
भाववति वह्नयनुमिति: । आगमाभासजो यथा नदीतीरे पञ्च फलानि
सन्ति इति प्रतारकवाक्यजन्यज्ञानम् इत्याहुः ( म० च० पृ० ८-९) ।
भत्र प्रत्यक्षाभासविषये विप्रतिपत्तिः । (१) प्रतीतं रजतं देशान्तरे
सदेव इति वैशेषिकादय आहुः । ( २ ) ज्ञानस्वरूपमेव इति विज्ञान-
वादिन आहुः । (३ ) तत्रैव तात्कालिकमुत्पन्नं सत् इति भास्कर आह ।