2023-02-20 00:56:43 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
७६३
तु हवनं न कार्यम् इत्यत्र विनिगमनाया अभावः इत्यादौ । स्मृतिं प्रत्यनु-
भवस्यानुभवत्वेन कारणत्वं ज्ञानत्वेन वा इति विप्रतिपत्तौ ज्ञानत्वेन
कारणत्वाङ्गीकारे तस्य सामान्यधर्मत्वेनान्यथासिद्धत्वं स्यात् इति विनि-
गमनया लाघवेन च ज्ञानस्त्रेनैव कारणत्वं नव्यैः साधितम् (मु०
स्मृतिनि ८० पृ० १९० ) इत्यादौ च ।
विनिमयः - १ [ क ] तुल्यद्रव्यदानेन द्रव्यान्तरग्रहणम् ( शब्दच० ) ।
यथा कांस्यपात्रद्वयं दत्वा तस्मात्ताम्रपात्रग्रहणं विनिमयः । [ ख ] मूल्या-
तिरिक्तद्रव्यग्रहण प्रयुक्त स्वस्वत्वध्वंसपर स्वत्वानुकूलस्त्यागः इत्यन्य आदुः
( का० व्या० का० ४ पृ० ६) । २ बन्धकम् इति व्यवहारशास्त्रज्ञा
आहुः । तच्च ऋणशोधनार्थी विश्वासहेतुतया आधीकृतः पदार्थः ( गहाण
इति प्र० ) । मध्यमतानुयायिवेदान्तिनः ३ कार्यम् । यथा तेजोवारिमृदां
यथा विनिमयः ( भाग० १।१।१ ) इत्यादौ इत्याहुः । ४ अन्यस्मिन्न-
न्यावभासो विनिमयः इति मायावादित्रेदान्तिन आहुः ।
विनियोगः -- १ क्रियासु प्रवर्तनम् । तदुक्तम् अनेनेदं तु कर्तव्यं विनि-
योगः प्रकीर्तितः (वाच० ) इति । यथा इमं मे वरुण श्रुधी हवमद्या
च मृडय । त्वामवस्युराचके (ऋ० १२।२।१९) इति मन्त्रस्य संस्काराङ्ग-
होमे विनियोगः । यथा वा अपसर्पन्तु ते भूता ये भूता भुवि संस्थिताः
इत्यस्य समस्तभूतोच्चाटने विनियोगः । २ अनुष्ठानक्रम विधानम् । यथा
आर्षे छन्दश्च दैवयं विनियोगस्तथैव च ( योगयाज्ञ ० ) इत्यादौ ।
विनियोगविधिः—( विधि: ) [ क ] प्रधाने अङ्गसंबन्धबोधको विधिः ।
यथा दध्ना जुहोति (शतपथ ० ) इति । अत्र अग्निहोत्रहोमे दधिसंबन्धो-
नेन बोध्यते ( म० प्र० ४ पृ० ६२ ) । { ख ] अङ्गानां प्रधानैः सह
संबन्धस्य बोधको विधिः । यथा दना जुहोति इति । स हि तृतीयया
प्रतिपन्नाङ्गभावस्य दनो होमसंबन्धं विधत्ते दना होमं भावयेत् इति ।
गुणविधौ च धात्वर्थस्य साध्यत्वेनैवान्वयः । तथा च धात्वर्थस्य साध्य-
त्वेनान्वय विवक्षायामयं गुणविधिरपि भवति इति ज्ञेयम् । कचिदाश्रय-
त्वेनापि । यथा दध्नेन्द्रियकामस्य जुहुयात् इति । अत्र होमाश्रयदधि-