2023-02-20 00:56:42 by ambuda-bot
This page has not been fully proofread.
७६२
न्यायकोशः ।
विधेयः । अत्र विधेयत्वं च अज्ञातस्यानुष्ठेयत्वेन प्रतिपाद्यमानत्वम्
( लौ० भा० टी० पृ० १५) । ३ अधीन इति काव्यज्ञा आहुः ।
विनय: - दण्डः ।
विनश्यदवस्थत्वम् – स्वप्रतियोगित्व स्वाव्यवहित पूर्ववृत्तित्व एतदुभयसंबन्धेन
नाशविशिष्टत्वम् । यथा भावकार्यस्य विनश्यदवस्थत्वम् ।
विनष्टः – १ भूतकालोत्पत्तिकनाशप्रतियोगी । यथा विनष्टो घटः इत्यादौ ।
२ पतितः । यथा विनष्टे वाप्यशरणे पितर्युपरतस्पृहे इति नारदस्मृतौ ।
३ स्वदेशादन्यत्र गतः इति च धर्मशास्त्रज्ञा आहुः ( दायभागे ) ।
विना —१ अभावः । यथा दण्डं विना न घटः इत्यादौ । एवम् ऋते
अन्तरेण इति निपातयोरप्यर्थ ऊह्यः । भत्र प्रतियोगित्वमनुयोगित्वं बा
द्वितीयार्थः । तस्य च विनार्थे अभावेन्वयः । विनान्तार्थस्याभावस्य
नञर्ये घटाद्यभावे प्रयोज्यतासंबन्धेनैवान्वयः । अत एव रासभं विना न
घट: इत्यादयो न प्रयोगा: ( ग० व्यु० का० २ ख० २ पृ० ७३ ) ।
२ वर्जनम् इति काव्यज्ञा आहुः ।
-
विनाडिका - विनाडिका तु षट् प्राणाः । अहोरात्रशब्दे दृश्यम् ।
विनाडी- ( प्राणशब्दे दृश्यम् ) ।
विनायक:- चतुर्थी ( पु० चि० ८६ ) ।
विनाशित्वम् – ध्वंसप्रतियोगित्वम् । यथा घटस्य विनाशित्वम् । अत्रेदम-
वधेयम् । आशुविनाशित्वं च तृतीयक्षणवृत्तिध्वंस प्रतियोगित्वम् । यथा
यागस्या शुविनाशित्वम् ( त० प्र० ख० ४ पृ० १०९ ) । बौद्धास्तु
पदार्थमात्रस्य स्वोत्पत्तिद्वितीयक्षण एव नाशाभ्युपगमात् द्वितीयक्षणवृत्ति-
ध्वंसप्रतियोगित्वमेव सर्वत्र विनाशित्वम् इत्याहुः ।
-
विनिगमना – अन्यतरपक्षपातिनी युक्तिः ( सि० ८० ) ( भवा ० ) ( त०
प्र० ख० ४ पृ० ४७-४८ ) । यथा अयमेव पक्षो ग्राह्यः पक्षान्तरं
तु न ब्राह्मम् अत्र का विनिगमना इत्यत्र । यथा वा उदिते जुहोति
अनुदिते जुहोति इत्यादि विकल्पस्थले उदित एव हवनं कार्यम् अनुदिते