This page has not been fully proofread.

+
 
न्यायकोशः ।
 
प्रवृत्तिजननी च कृतिसाध्यत्वप्रकारकेच्छा । तज्जननी च कृतिसाध्यत्व-
प्रकारिका बुद्धिः इति यावत् ( न्या० म० १० २५ ) । अत्रेदमव-
धेयम् । प्राभाकरमत इष्टसाधनत्वमपि विध्यर्थो भवत्येव । अत एव
तैर्नित्यापूर्वी निषेधापूर्वरूपं पण्डापूर्वमपि संध्यामुपासीत न कलजं भक्षयेत्
( स्मृतिः) इत्यादिविधिनिषेधयोः कल्प्यते ( त० प्र० ४ पृ० ८९ ) ।
अत्रेदमधिकं बोध्यम् । प्राभाकरमते अन्यथाख्यातिर्नास्ति इति । एवं च
तन्मते कार्यत्वमेव विध्यर्थः । अयमाशयः । प्राभाकरमते कार्यत्वविशिष्टा-
पूर्वस्य विध्यर्थत्वाद्विशेषणांशः कार्यत्वमपि तदर्थः इति ( म० प्र० ४
पृ० ५९ ) । अत्रेदं बोध्यम् । प्राभाकरमते यागस्याशुविनाशित्वेन
स्वर्गोत्पत्तिकाले तस्याभावात्तदुत्पत्त्यर्थ यागजन्यमपूर्व कल्प्यते । तथा च
वेदे कार्यत्वविशिष्टापूर्वसंभवेन तत्र शक्तिरेव । परं तु लोके पचेत
इत्यादावपूर्वे तात्पर्यासंभवात् कार्यत्वे लक्षणैव । अथ वा लौकिकलिङः
कार्यत्वे शक्तिः । वेदे तु स्वर्गकामान्वयानुपपत्त्या क्रियातिरिक्तकार्ये शक्तिः
( त० प्र० ख० ४ पृ० ११९) । भट्टास्तु स्थाय्यपूर्वकल्पनापेक्षया
यागस्यैव स्थायित्वं कल्पनीयम् इत्याहुः । चिकीर्षाजन्यकृतिसाध्यत्वं
कार्यत्वम् ( न्या० सि० दी० पृ० ६५ ) । कार्यत्वं च कृतिसाध्यत्वम् ।
तज्ज्ञानमेव प्रवर्तकम् । तच्च ज्ञानम् कृतिसाध्यत्वप्रकारकमित्यर्थः । तेन
ज्ञानेन कृतिसाध्यत्वप्रकारिकेच्छा जन्यते । तया च प्रवृत्तिर्जन्यते । सा
च पाकं यागं वा कुर्याम् इत्याकारिका चिकीत्यर्थः ( न्या० म० )
( म० प्र० पृ० ५९ ) । तत्र प्राभाकरमतान्तर्वर्तिन एवमाहुः । कृति-
साध्यत्वप्रकारकज्ञानं चेष्टसाधनतालिङ्गककृतिसाध्यतानुमितिः इष्टसाधनता-
ज्ञानकालीनकृतिसाध्यताज्ञानं वा काम्यस्थले प्रवर्तकम् । नित्यस्थले च
अहरहः संध्यामुपासीत इत्यादौ अहमिदानींतनक्कृतिसाध्यसंध्यावन्दनकः
ब्राह्मणले सति विहितसंध्याकालीनशौचा दिमत्त्वात् इति शौचादिमत्त्व-
प्रतिसंधानजन्यं कृतिसाध्यताज्ञानं प्रवर्तकम् इति ( म० प्र० ख० ४
पृ० ५९ ) ( सि० च० ) । तथा च अहरहः संध्यामुपासीत इत्यादौ
नित्यतया निष्फले संध्योपासनादाविष्टसाधनस्वस्यायोग्यत्वेनान्वयासंभवा.
 
लेष्टसाधनत्वमपि लिङर्थोपूर्वविधिः । नैयायिकास्तु नित्यकर्मस्थलेपि अर्थ-
-